पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तर्काण्ड 18B वस्तूनां भेदे कथं सा तुल्या? अथास्वभावःतदा तादात्म्यादिसंबन्ध- भावात् कथं सा वस्तूनां स्यात् ? ततश्च ततोऽप्येकमेव तत्वं स्यात् , न भेदः । अथानादिवासनानिबन्धनो मित्रावपि व्यक्तिष्वेकरूपवभसः ; ततश्च तदनुरूपो व्यवहारः , न तु व्याक्तिगतः कश्चिद्विशेषोऽपेक्ष्यत इत्युच्यते ; तदप्ययुक्तम् ; व्यक्तिगतविशेषानाश्रयणे हि गोव्यक्तिष्वेव गौः’ इत्येकरूपावभासो भवति, नाश्वव्यक्तेिष्वित्ययं नियमो न स्यात् ; अस्ति च । तस्मान्न वसनामात्रनिबन्धनोऽयमभेदावमासः । न च वास नानां भेदात् काचिदेव वासना कासुचिदेव व्याक्तिर्बभेदावमासं करोति, न सर्वाखिति वाच्यम् ; सा हि पूर्वानुभवजहदसंस्कारानुवेधरूपत्वात् पूर्वानुभूतावेव व्यक्तिष्वभेदावभासं कुर्यात् , न मिनासु । सादृश्यात्रापि करोतीति चेत् ; न, तस्य निरस्तत्वात् । ततः कश्चिद्वक्तयः कस्यचि- दभेदावभासस्य प्रकृत्यैव समर्थाः, न सर्वाः सर्वस्येति तासां समयति शयाः कर्प्याः । भिन्नानां व्यक्तीनां मेदवभासहेतव एव सामथ्र्यातिशया युक्ताः ; इमे त्वभेदावभासस्य हेतव इति । स्वभावविपरीता इत्युच्यन्ते । तत्र तेषामनन्तानि वरतूनि, अनन्ताश्च सामथ्र्यातिशयाः करुप्या इति कल्पनागौरवम् । मम त्वेकं तवं कल्प्यमिति कल्पनालाघवम् । तरमा देकस्यैवास्तु महिमा यन्नानेवावभासते ; न तु मिलानाम् , यदभेदेन भासन्त इत्यर्थः । यथावस्तु व्यवहारो युक्तः ; तत्राभिन्ने तवे घटपटादिभेद व्यवहारस्ते कथमिति चेदत आह--भेदेति । यथाबभासं हि व्यवहारः न यथावस्तु, रज्जुसर्पवभासे पलायनदर्शनात् । अवभासते च भेदः । अतोऽवभासानुरूपा मेदयवहाराः सेत्स्यन्ति ; यथा—भेदवादिनां भिन्नासु व्यक्तिषु “गौः’ इत्यभेदव्यवहारः । न केवलं तेषाम् ; अपितु बाति व्यक्त्योरत्यन्तभिन्नयोः समवायाख्यसंसर्गवादिनामपि ; कणभुजां बातेर्यक्ति योऽर्थान्तरत्वात् ‘गोत्ववतीं व्याक्तिमानय’ इति यथावस्तु भेदावभासेन नं व्यवहारः; किंतु गामानय’ इत्यभेदव मासेनैव विशेषेषु सामान्य- व्यवहारः । तया येऽपि व्यक्तियो जातिमनर्थान्तरभूतां वदन्ति भाट्टाः, तेषामपि दोघांत्मकं वस्तु । न च तस्य तादृशस्य शबलस्य वस्त्वन्तरे ऽनुगमोऽखि । यस्य त्वति सामान्यांशमात्रस्य, तदेकमवस्त्वेव । ततश्च