पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये चतुर्थः पादः । विशेषं च दर्शयति ॥ १६ ॥ 'यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति' (छा. ७-१-५) इति नाम- प्रतीकोपासनफलादुत्तरोत्तरवागायुपासनानामुत्कृष्टफल विशेषं दर्शयति 'बाग् बाब नाम्नो भूयसी' (छा. ७-२-१) इत्याद्या श्रुतिः । अयं च फलविशेषः प्रतीकाना- मुत्कर्षापकर्षवतामुपास्यत्वे युज्यते, नतु सर्वत्रैकरूपस्य ब्रह्मण उपास्यत्वे । त- स्माद् ब्रह्मोपासकानामेव ब्रह्मप्राप्तिर्न प्रतीकोपासकानामिति सिद्धम् ॥ १६ ॥ अस्मिन् पादे षडधिकरणानि । सूत्राणि षोडश । इति ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां चतुर्थाध्यायस्य तृतीयः पादः ।

अथ चतुर्थः पादः । १ सम्पद्याविर्भावाधिकरणम् * इत्थं पूर्वस्मिन् पादे सगुणब्रह्मोपासकानां कार्यब्रह्मप्राप्तिः कथिता । अधु- ना निर्गुणब्रह्मविदां तद्भावमभिधातुमयं पाद आरभ्यते-- १७७ सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥ पादान्तरत्वादस्य नाधिकरणसङ्गत्यपेक्षा । अत्र पूर्वपक्षे स्वर्गमोक्षयोर- विशेषः, सिद्धान्ते विशेष इति फलभेदः। 'एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छा. ८-३-४) इति श्रूयते । तत्र किं स्वर्गादौ सुकृतिन इव निर्गुणब्रह्मविदोऽप्यागन्तुकेन केनचिद्विशेषेणाभिनिष्प- त्तिः, उतात्ममात्रेणाविर्भाव इति सन्देहे फलत्वाविशेषात् स्वर्गवदभिनिष्पत्तिरागन्तु- केन विशेषेणेति पूर्वः पक्षः । सिद्धान्तस्तु सम्पद्य स्वप्रकाशात्मानं साक्षादनुभूय तेनैवात्ममात्रेण आविर्भावः विद्वानाविभवति । कुतः, स्वेनशब्दात् 'स्वेन रूपे- णाभिनिष्पद्यते’ इति स्वशब्दादित्यर्थः । फलहेतुकानुमानं मोक्षनित्यत्वश्रुतिबाधि- तमिति बोध्यम् ॥ १ ॥ "T 16 ननु स्वरूपात्मकमोक्षस्य सदातनत्वात् कः पुनः पूर्वावस्थातो विशेषः । अत आह--