पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥ अपि च- ‘प्रजापतेः सभां वेश्म प्रपद्ये' (छा ८-१४-१) इत्ययं प्रतिपत्त्यभिसन्धि- र्वेश्मप्राप्तिसङ्कल्पो न कार्ये कार्यब्रह्मविषयको न भवति, अपि तु परब्रह्मविषयक एव । ‘ते यदन्तरा तद्ब्रह्म' इति परस्यैव प्रकृतत्वादिति पूर्वः पक्षः । अस्मिन् पूर्वपक्षे 'मुख्यत्वाद्' 'दर्शनाच्चेति हेतुद्वयमर्वागेवादूषि । प्रकरणाद्वेश्मप्राप्ति- सङ्कल्पः परविषय इति, तन्न, 'प्रजापतेः सभां वेश्म प्रपद्ये' इति वाक्यश्रुतिभ्यां दुर्बलप्रकरणविच्छेदेन वेश्मप्राप्तिसङ्कल्पस्य कार्यब्रह्मविषयकत्वावगमाद् अतः कार्यब्रह्मैव गन्तव्यमिति सिद्धम् ॥ १४ ॥

  • ६ अप्रतीकालम्बनाधिकरणम् *

इत्थमचिरादिगन्तव्यं निरूप्य गन्तृणां बुद्धिस्थत्वाद् बुद्धिस्थत्वसङ्गस्या तान् निरूपयितुमिदमाह -- अप्रतीकालम्बनान्नयतीति बादरायण उभयथा- दोषात् तत्क्रतुश्च ॥ १५ ॥ अत्र पूर्वपक्षे उपासकमात्रस्योत्तरमार्गसिद्धिः । सिद्धान्ते तूभयथाभाव- सिद्धिरिति फलभेदः । किममानवः पुरुषः सर्वानुपासकान् ब्रह्मलोकं नयति उता- प्रतीकालम्बनानिति सन्देहे नियामकाभावात् सर्वानिति पूर्वः पक्षः। सिद्धान्तस्तु अप्रतीकालम्बनान् प्रतीकोपासकभिन्नानुपासकान् नयत्यमानव इति बादरायण आचार्यो मन्यते । ननु तर्हि 'अनियमः सर्वासाम्' (ब्र. ३-३-३१) इत्यत्र सर्वोपा- सनेषु मार्गोपसंहारः कृतः । तद्विरोध इत्यत आह – उभयथादोषात् । कांश्चिदु- पासकान् नयति कांश्चिन्नेत्युभयथाभ्युपगमे अदोषाद् दोषाभावाङ्, अनियमन्यायस्य प्रतीकभिन्नविषयकत्वान्न तद्विरोधः । अत्र नियामकमाह - -तत्क्रतुश्च तस्य कार्य- ब्रह्मणः ऋतुरुपासनं यस्य स तत्क्रतुरुपासकः । एवञ्च यो यद्विषयकोपास (न) कः स तत् प्राप्नोतीति श्रुतिस्मृतिसिद्धत्वात् तदुपासकानामेव कार्यब्रह्मप्राप्तिः । प्रतीको पासनेषु 'नामब्रह्मे'त्यादिषु ब्रह्मणः प्रतीकं प्रति विशेषणत्वेन प्रतीकस्यैव प्राधान्यान्न तदुपासकानां ब्रह्मप्राप्तिः। पञ्चाग्न्युपासकानां त्वब्रह्मोपासकत्वेऽपि श्रुतिबलाद् ब्रह्म- प्राप्तिरिति विवेकः ॥ १५ ॥ --- अपिच-