पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थाध्याये प्रथमः पादः ।

  • ९ तदधिगमाधिकरणम् *

पूर्वं यथोपासकानां यावज्जीवं कर्तव्यमस्तीत्युक्तं, न तथा ब्रह्मात्मविदामिति प्रत्युदाहरणसङ्गत्या कर्मक्षयलक्षणां जीवन्मुक्तिमाह- तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥ अत्र पूर्वपक्षे ब्रह्मविदोऽपि सञ्चितपापफलभोगानन्तरं मुक्तिः, सिद्धान्ते विद्योत्पत्त्यनन्तरमेव पापनाशाज्जीवन्मुक्तिरिति फलभेदः । अत्र ब्रह्मविद उत्तर- पूर्वाधाश्लेषविनाशौ भवत उत नेति सन्देहे 'नाभुक्तं क्षीयते कर्म' इति स्मृतेर्नेति पूर्वः पक्षः । सिद्धान्तस्तु तदधिगमे ब्रह्मसाक्षात्कारे सति उत्तरपूर्वाधयोः ज्ञाना- दूर्ध्वं देहेन्द्रियादिवशात् सम्भावितं पापमुत्तराघं, ज्ञानात् पूर्वमिह जन्मनि जन्मा- तरे वा सञ्चितं पापं पूर्वाधं, तयोरश्लेषविनाशौ भवत एव । कुतः, तद्व्यपदेशात् 'यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते' (छा- ४-१४-३) इति । ‘तद्यथेषीकातूलमझौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. ५-२४-३) इति श्रुतिभ्यां तयोरुत्तरपूर्वाधाश्लेष विनाशयोर्ब्रह्म विदि व्यपदेशात् । एवं 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' (मु. २-२-८) इत्यादिश्रुत्या निर्गुणब्रह्मविद्यास्वप्युत्तर पूर्वाघाश्लेषविनाशयोर्व्यपदेशादित्यर्थः । स्मृ- तिस्त्वज्ञविषयेति भावः ॥ १३ ॥ १० इतरासंश्लेषाधिकरणम् * पूर्वं ब्रह्मविदः पापस्याश्लेषविनाशावुक्तौ, न तथा पुण्यस्यापि तौ भवतः, तस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेना विरोधादिति प्रत्युदाहरणसङ्गत्येदमाह -- इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ फलमत्र पूर्ववत् | पुण्यस्याप्यश्लेषविनाशौ भवत उत नेति सन्देहे नेति पूर्वः पक्षः । सिद्धान्तस्तु अकर्त्रात्मबोधसामर्थ्यादितरस्यापि पुण्यस्योत्तरस्य पूर्वस्य च एवमघवदश्लेषो विनाशश्च भवतः । 'उभे उ हैवैष एते तरति' (बृ. ४-४- २२) इत्यादिश्रुतिभिस्तव्यपदेशादित्यर्थः । ब्रह्मविदः पुरुषधौरेयस्य पुण्यपापयो- र्बन्धहेत्वोरभावाद् देहपाते मुक्तिरवश्यं भवत्येवेत्यधिकरणद्वयस्य फलमुक्तं भवति ॥ १४ ॥ २. 'र्थः ॥ १३ ॥' क. पाठः, १. 'शादित्यर्थः' ख. पाठः.