पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसूत्रवृत्तौ ब्रह्मतत्त्वप्रकाशिकायां स्मरन्ति च ॥ १० ॥ 'शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः' (गी. ६-११) इत्यादिना शिष्टा उपासनार्थमासनं स्मरन्ति । अतोऽप्यासीन एवोपासीतेति सिद्धम् ॥१०॥

  • ७ एकाग्रताधिकरणम् *

१६० पूर्वमनानाश्रितोपासनेष्वास ननियम उक्तः । तद्वद् दिगादिनियमोऽस्तु 'प्राचीनप्रवणे वैश्वदेवेन यजेते'त्यादिदिगादिनियमदर्शनादिति दृष्टान्तसङ्गत्येद- माह -- यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ अत्र पूर्वपक्षे दिगादिष्वादरः, सिद्धान्ते त्वनादर इति फलभेदः । तेष्वेवो- पासनेषु दिगादिनियमोऽस्ति न वेति विशये अस्तीति पूर्वः पक्षः । सिद्धान्तस्तु प्राच्या दिदिगादिनियमो नास्ति । किन्तु यत्र दिशि देशे काले वा चित्तस्यैकाग्रता एकविषय प्रवाहः, तत्रोपासीत । कुतः, दिगादिविशेषाश्रवणात् । ननु 'समे शुचौ' (श्वे. २-१०) इति देशविशेषः श्रूयत इति चेद्, वाढम् । तदपि श्रवणं चित्तैका- ग्रचसम्पादकदेश उपासीतेति दर्शयति, वाक्यशेषे मनोऽनुकूलत्व विशेषणात् । 'प्रा- चीनप्रवण' इत्यादिश्रवणं तत्कर्मण्येव नोपासनेष्विति द्रष्टव्यम् ॥ ११ ॥ ८ आप्रायणाधिकरणम् * पूर्व यथा दिगादिनियमाश्रवणात् तदभाव उक्तः, तथा यावज्जीवमुपासना- वृत्त्यश्रवणात् तदभाव इति दृष्टान्तसङ्गत्येदमाह-- आ प्रायणात् तत्रापि हि दृष्टम् ॥ १२ ॥ अत्र पूर्वपक्षे कादाचित्कप्रत्ययावृत्तेरदृष्टद्वारोपास्यसाक्षात्कारहेतुत्वं, सि- द्धान्ते निरन्तरप्रत्ययावृत्तेः साक्षादेव तद्धेतुत्वमिति फलभेदः । अत्राहङ्ग्रहोपास- नानि किं कदाचित् कृत्वोपरमेद्, उत यावज्जीवमुपासीतेति विशये कदाचिदिति पूर्वः पक्षः । सिद्धान्तस्तु आ प्रायणादा मरणादुपासीत । हि यतस्तत्रापि मरणका- लेऽपि 'स यावत्क्रतुरयमस्माल्लोकात् प्रैति' इति श्रुत्योपास्यत्ययानुवर्तनं दृष्टम् । न च तददृष्टसाध्यं, दृष्टे सम्भवत्यदृष्टकल्पनानुपपत्तेः । तस्मादा मरणमहङ्ग्रहो- पासनं कुर्वीतेति’ सिद्धम् ॥ १२ ॥ १- ‘ति दृष्टम्' क. पाठः,