पृष्ठम्:बृहद्देवता.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATÂ ii. 97 - कृताकृतस्य सदृशो गृहीतस्य पुनर्ग्रहः ॥९७ ॥ पादसूक्तऋगर्धर्चनामान्यन्यानि यानि च । सर्वे नामानि चैवाहुर् अन्ये चैवं यथा कथा ॥९॥ प्रधानमर्थः शब्दो हि तहुणायत्त इष्यते । तस्मान्नानान्वयोपायैः शब्दानर्थवशं नयेत् ॥ ९९ ॥ अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् । विप्रकृष्टं च संदध्याद् आनुपूर्वी च कल्पयेत् ॥ १०० ॥ लिङ्गं धातुं विभक्तिं च संतमेतत्र तत्र च | यद्यत्स्याच्छान्दसं मन्त्रे तत्तत्कुर्यात्तु लौकिकम् ॥१८१॥ यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् । अर्थश्चाप्यभिधेयः स्यात् तावद्भिर्गुणविग्रहः ॥१०२॥ धातूपसगवयवगुणशव्दं विधातुजम् । बहेकधातुजं वापि पदं निर्वाच्यलक्षणम् ॥१०३॥ धातुजं धातुजाज्जातं समस्तार्थजमेव वा । वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ॥ १०४ ॥ विगुईन्डोऽव्ययीभावः कर्मधारय एव च । पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः ॥१०५ ॥ विग्रहानिर्वचः कार्य समासेष्वपि तद्धिते । प्रविभज्यैव निब्रूयाद् दण्डाहर्हो दराझ इत्यपि ॥ १०६॥ भायी रूपवती चास्य रूपवनार्य इत्यपि । इन्द्रश्च सोमश्चेत्येवम् इन्द्रासोमौ निदर्शनम् ॥१०७ ॥ शब्दरूपं पदार्थञ्च व्युत्पत्तिः प्रकृतिर्गुणः | सर्वमेतदनेकार्थे दशान वगमे गुणाः ॥ १० ॥ सामान्यवाचिनः शब्दा विशेषे स्थापिताः क्वचित् । पलायने यथा वृत्तिः को नु मयी इतीषते ॥ १०९ ॥ [20 २०॥ २१॥