पृष्ठम्:बृहद्देवता.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19] —BRIHADDEVATA ii. 97 नवकः प्रथमस्त्वासां वर्गस्तुष्टाव देवताः । ऋषिभिर्देवताभिश्च समूदे मध्यमो गणः ॥५॥ आत्मनो भाववृत्तानि जगौ वर्गस्तयोत्तमः । उत्तमस्य तु वर्गस्य य ऋषिः सैव देवता ॥ ६॥ आत्मानमस्तौडर्गस्तु देवतां यस्तथोत्तमः । तस्मादात्मस्तवेषु स्याद् य ऋषिः सैव देवता ॥७॥ संवादेष्वाह वाक्यं यः स तु तस्मिन्मवेदृषिः । यस्तेनोच्येत वाक्येन देवता तत्र सा भवेत् ॥ ॥ उच्चावचेषु चार्थेषु निपाता: समुदाहृताः । कर्मोपसंग्रहार्थे च क्वचिञ्चौपम्यकारणात् ॥ ९॥ ऊनानां पूरणार्थी वा पादानामपरे क्वचित् । मिताक्षरेषु मन्येषु पूरणार्थी स्त्वनर्थकाः ॥ ९० ॥ कमीमिडिति विज्ञेया ये त्वनेकार्थकाश्च ते । इव न चिन्नु चत्वार उपमाथी भवन्ति ते ॥ ९१ ॥ उपमार्थे नकारस्तु क्वचिदेव निपात्यते । मिताक्षरेषु ग्रन्थेषु प्रतिषेधे वनस्पशः ॥९२ ॥ इयन्त इति संख्यानं निपातानां न विद्यते । वशात्मकरणस्यैते निपात्यन्ते पदे पदे ॥९३ ॥ उपसगास्तु विज्ञेयाः क्रियायोगेन विंशतिः । विवेचयन्ति ते ह्यर्थ नामाख्यातविभक्तिषु ॥ ९४ ॥ अछ* श्रदन्तरित्येतान् आचार्य: शाकटायनः । उपसगान * क्रियायोगान् मेने ते तु त्रयोऽधिकाः ॥९५ ॥ चीण्येव लोके लिङ्गानि पुमान् स्त्री च नपुंसकम् । नामसूक्तप्रयोगेषु वाच्यं प्रकरणं तथा ॥९६ ॥ तेषां तु नामभिर्लिङ्गैर् ग्रहणं सर्वनामभिः | [Introduction १७ ॥ १८ ॥ १९ ॥