पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रश्नोपनिषत् यद्विषयं ज्ञानं मोक्षसाधनं तनिश्चयोद्देशेन । अतः षोडशकलपुरुषनिरूपणऽवसितेऽपि श्रोतुरुद्दिष्ट निश्चयसम्पत्तये निरूपितषोडशकलपुरुषविलक्षणतया मोक्षसाधनभूतवेदनविषयं वस्तु निरूयितु- मुपरि आचार्यः प्रवर्तत इति भावः। स दृष्टान्त इति । स यथेत्युपक्रमे श्रुतस्यापि तत्रानन्वयात् कमभेदेन इह योजना कार्येत्यभिसन्धिः। अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वैद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६॥ अरा इवेति । यस्मिन् प्रतिष्ठिताः यदात्मिकाः, यदुपादाना इत्यर्थः । शिष्टं स्पष्टम् । यथावत्' तमेव पुरुषं मुमुक्षुवेद्यमवगच्छत । ब्रह्मज्ञानस्य फलमाह-मा वो मृत्युरिति । वः ब्रह्मज्ञानां युष्माकं परितो व्यथाः मृत्युर्मा कार्षीदित्यर्थः ॥ ६ ॥ यथेत्यस्य प्रसिद्धमुपमानार्थ अत्रानपेक्षितत्वादुपेक्ष्य उपयुक्तमर्थान्तरमाह --यथावदिनि । वेद्यमित्येतत् विधेयविशेषणमित्यभिप्रेद्च व्याचष्टे-मुमुक्षुवेद्यमवगच्छतेति । वित्तेत्यर्थे व्यत्ययेन वेदेति रूपमिति भावः । मा व इत्यनेन हि बहूनामत्र सम्बोध्यत्वं प्रतीयते | कार्षीदिति । अध्याहृतमिदम् । अत्रेदं बोध्यम् । स यथेमा नद्य इत्यादिः पूर्वः दण्डः कृत्स्नः जीवपरतथापि शक्यो योजयितुम् । तथा हि । कः षोडशकल: पुरुष इति प्रष्टुरयमाशयः । यद्यथे जीवात्मा, तर्हि स्वाभाविकात् षोडशकलत्वात् अस्य कदापि मोक्षो न भविष्यतीति । तं व्यावर्तयिनुमिच्छन् आचार्यः स यथा नद्य इत्यादि वक्तुमुपक्रमते । अस्तं गच्छन्ति स्वरूपं जहति ; भोक्तुर्भोगोप- करणतां त्यजन्ति । अत्यन्तनिवृत्ततत्सम्बन्धा भवन्तीति यावत् । कदा ? पुरुषं प्राप्य । तेजः परस्यां देवतायामित्युक्तरीत्या चरमशरीरान्निष्क्रामति जीवे तेन सह परमात्मान सम्मन्नास्वास्वि. त्यर्थः । ततः परं हि तासां तज्जीवोपकरणता नास्ति । परमात्मना एकीभूतास्तच्छरीरतया केवलं वर्तन्त इति । एवं सति जीवः कथं भवतीति चेदाह ...- स एष इति। सः पूर्वं षोड- शकलः स्थितः, एषः अद्य परमात्मलीनसर्वकलः जीवः, अक्ल कलासम्बन्धरहितः, अत एव अमृतः पुनः संसारगन्धरहितः भवति । तथाच षोडशकलत्वान्मुक्तिर्भवत्येव जीवस्येति भावः । नन्वीदृश्या दशायाः सम्पत्त्यर्थ किं कर्तव्या त्यत्र श्लोकेन समाधानं वक्तुमिच्छन् तमुपक्षि- पति-तदेष इति । परिद्रष्टुः परिदर्शनसाधनभूताः कलाः यत्र अन्ततो लीना भवन्ति स. परमपुरुषः वेद्यः उपास्यः । उपासनेन प्रीतः सः इमां दशा जीवं प्रापयिष्यति। तस्मात् तस्योपास्तिं कुरुत ! कलाः सर्वा निर्वत्स्यन्ति । संसारव्यथा पुनर्न भविष्यतीति । मूले परिव्यथा इति । अयमितिशब्दः प्रतिवचनसमाप्त्यर्थः । 1. ना. 'वेदयथ'। 2. प्र. 'माझानं फलम् ।