पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ प्रबोधचन्द्रोदयम् ( प्रविश्य दौवारिकः । ) दौवारिकः - जयतु जयतु । आज्ञापयतु देवः । - महामोहः – भो असत्सङ्ग, आदिश्यन्तां कामक्रोधलोभमदमा- त्सर्यादयो यथा योगिनी विष्णुभक्तिर्भवद्भिरेवावहितौर्विहन्तव्येति । दौवारिकः – यदाज्ञापयति देवः । - ( इति निष्क्रान्तः । ) (ततः प्रविशति पत्रहस्तः पुरुषः ।) पुरुषः -- *हग्गे उक्कलदेसादो आगदोसि । अत्थि तत्थ सा- अलतीलसण्णिवेसे पुलिसोत्तमसग्गिदं देवदाअदणम् । तस्सि म- दमाणेहिं भट्टकेहिं महालाअसआसं पेसिदोमि । (विलोक्य) एसा वालाणसी । एदं लाअउलम् | जाव प्पविसामि । ( प्रविश्य ) एसो भट्टको चव्वाकेण सद्धं किंवि मन्तअन्तो चिट्ठदि । ता उवसप्पामि [द्वितीयोऽङ्कः

  • अहमुत्कलदेशादागतोऽस्मि । अस्ति तत्र सागरतीरसंनिवेशे

पुरुषोत्तमशब्दितं देवतायतनम् । तस्मिन्मदमानाभ्यां भट्टारकाभ्यां महा- राजसकाशं प्रेषितोऽस्मि । एषा वाराणसी । इदं राजकुलम् । यावत्प्रविशामि । एष भट्टारकश्चार्वाकेण सार्धे किमपि मन्त्रयस्तिष्ठति । स्तिष्ठतीत्यर्थः । प्रविश्य दौवारिकः । अत्र सहसैवार्थसंपत्तिलक्षणेन पताकास्था- नकेन प्रवेशः ॥ आज्ञापयत्वित्यादि दौवारिकेत्यन्तं स्पष्टम् । अत्र विष्णुभ- तिर्विहन्तव्येत्यादि सा भवद्भिाियन्तेन विष्णुभचिश्रद्धाहिंसाकथनेना- र्तिप्रतीतेर्विधूतं नाम प्रतिमुखसन्धेस्तृतीयमङ्गम् । 'विधूतमार्तिविख्यातम्' इति लक्षणात् । ततः प्रविशति पत्रहस्तः पुरुष इति । अत्र लेख्यं नामोपसन्धिस्तेन पात्रप्रवेशः । ‘प्रश्नोद्भूतं च लेख्यं च नेपथ्योक्ति- स्तथैव च । आकाशवचनं चेति विज्ञेयाः पञ्च सन्धयः ॥” इति पत्रमर्पयती- असत्सङ्ग इति दौवारिकसंबोधनम् । [पुरुष:- अहमुत्कलदेशादागतोऽस्मि । अस्ति तत्र सागरतीरसंनिवेशे पुरुषोत्तमसंज्ञितं देवायतनम् । तस्मिन् मदमानाभ्यां भट्टारकाभ्यां महाराजसकाशं प्रेषितोऽस्मि । एषा वाराणसी । इदं राजकुलम् । यावत्प्रविशामि । एष भट्टारकश्चार्वाकेण सार्धं किमपि मत्रयंस्तिष्ठति । तदुपसर्पाम्येनम् । जयतु • । १ 'मदमानमात्सर्य' इति पाठः । २ 'संविदं' इति पाठः । ३ 'महालाजस्स' इति पाठः ।