पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ पश्य- अपि च । प्रबोधचन्द्रोदयम् स्वर्गः कर्तृक्रियाद्रव्यविनाशे यदि यज्वनाम् । ततो दावाग्निदग्धानां फलं स्याद्भूरि भूरुहाम् ॥ १९ ॥ [द्वितीयोऽङ्कः अपि च । निहतस्य पशोर्यज़े स्वर्गप्राप्तिर्यदीप्यते । स्वपिता यजमानेन किं नु कस्मान्न हन्यते ॥ २० ॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ २१ ॥ - शिष्यः – *आचालिअ, जई एसो जेव्व पलमत्थो पुलिसस्स जं खज्जए पिज्जए । ता किंति एदिहिं तिथेहिं संसालसुहं पलिह-

  • आचार्य, यद्येष एव परमार्थः पुरुषस्य यत्खाद्यते पीयते । तर्हि

पश्येत्यादि । स्वर्गेति । यज्वनां विधिनेष्टवताम् । कर्तृक्रियानाशेऽपि वर्गो यदि फलं स्यात्ततस्तहत्यिर्थः । तर्हि दावाग्निदग्धानां भूरुहां भूरि फलं स्यादित्यन्वयः ॥१९॥२०॥ देवयज्ञप्रतिपादकं शास्त्रं दूषयित्वा पितृयज्ञप्रतिपादकं शास्त्रं दूषयति- मृतेति । मृतानामपि भूतानां श्राद्धं तृप्तिकारकं चेन्निर्वाणस्य विनष्टस्य शिखां स्नेहः संवर्धयेत् ॥२१॥ आचालीत्यादि । इयं मागधी भाषा । एसो पलमपुलि सम्स, इत्यत्र ‘पुंसेलतः' इति सूत्रेण एकारः । पुंस्येलतः । मागध्यां भाषायां पुंसि पुंलिङ्गे अतः अकारस्य एत् एकारादेशो भवतीति लिलामियां (?) यद्यपि शेः श- नम् । वेदवचसामप्रामाण्येन धूर्तप्रलपितत्वं समर्थयति स्वर्ग इति । कर्तारधऋ- त्विजः, क्रियाश्च होमादिरूपाः, द्रव्यं च पुरोडाशादि, एतद्विनाशे यज्वनां यजमा- नानां यदि स्वर्गः ततस्तहिं दावाग्निदग्धानां भूरुहां वृक्षाणां फलं भूरि बहु स्यात् । अकारणात्कार्योत्पत्तेरुभयत्रापि तुल्यत्वादिति भावः ॥ १९ ॥ २० ॥ — तत्रैव यु- क्त्यन्तरमाह—मृतानामिति । निर्वाणस्य विनष्टस्य | स्नेहस्तैलादिः अतिरोहितार्थ- मन्यत् ॥ २१ ॥ शिष्यः – आचार्य, यदि एष एव परमार्थ: पुरुषस्य, खाद्यते यीयते तत्किमित्येतैस्तैथिकैः संसारसुखं परिहृत्य आत्मा घोरघोरतरैः = पराकसान्तपन- १ 'किं न तस्मान्निन्यते' इति पाठः । २ 'तित्थिपहि' इति पाठः ।