पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः अस्मच्छ्यालकंभागिनेयदुहिता मिथ्याभिशप्ता यत- स्तत्संपर्कवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥ ९ ॥ - दम्भः – ब्रह्मन्, यद्यप्येवं तथाप्यस्माकमविदितवृत्तान्तो भ- वान् । तथाहि — सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुच्चैरासनेषूज्झितेषु । सशपथमनुनीय ब्रह्मणा गोमयाम्भ:- परिमृजितनिजोरावाशु संवेशितोऽस्मि ॥ १० ॥ - अहंकारः – (स्वगतम्) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः । (बिचिन्त्य) अथवा दम्भोयम् । भवत्वेवं तावत् । (प्रकौशम्) आः, किमेवं गर्वायसे । (सक्रोधम् ) तिक्रान्तोऽस्मि ॥-यत इत्यादि । अस्मच्छालकभागिनेयत्वं यद्यपि वपुत्रे वर्तते तथापि दूरसंवन्धप्रतिपादनपरत्वाद्वाक्यस्य भागिनेयशब्देन सपत्नीभागिनेयो विव- क्षितः ॥९॥ यद्येवमित्यर्धाङ्गीकारे ॥१०॥ अहो ब्राह्मणस्य दाम्भिकस्यात्युक्तिः। दाम्भिकस्य दम्भोपजीविनः । अथवा दम्भोऽयमिति । मूर्तौ दम्भ इयर्थः ॥— आः किमेवमित्यादि । गर्वायसे गर्ववानिवाचरसि । 'कर्तुः क्यङ् सलोपश्च' इति । न, मया पुन: समीचीनश्रोत्रियाणां कन्या व्यूढा परिणीता । तेन कारणेनाहं ताता- धिकः पित्रधिकः । ‘उत्तमैरुत्तमैर्नित्यं संवन्धानाचरेद्बुधः' इति सारणात्संबन्धकृत- मुत्तमत्वम् । आचारातिशयं दर्शयति । अस्माकं श्यालकोऽस्मच्छालकस्तस्य मित्रं तस्य मातुलो मातुर्भ्रातां तस्य सुता कन्या सा यतो हेतोर्मिथ्याभिशप्ता मिथ्याभिशा- पयुक्ता तत्संपर्कवशात्परंपरासंबन्धान्मया प्रेयस्यपि प्रेमास्पदमपि स्वगृहिणी प्रोज्झि- ताऽत्यन्तं त्यक्ता ॥ ९ ॥ सदनमिति । अहं पूर्वमम्भोजयोनेर्हिरण्यगर्भस्य सदनं गृहं प्रत्युपगतः । ब्रह्मणा हिरण्यगर्भेण गोमयाम्भ: परिमृजितनिजोरौ गोमययुक्तेना- म्भसा जलेन परि समन्तान्मृजित: शोधितो निजः स्वीय ऊरुरङ्कस्तस्मिन्सशपथं यथा- स्यात्तथानुनीय मानयित्वोपवेशित: । केषु सत्सु । उच्चैरतिशयेन मुनिभिः सपदि तत्क्षण एव आसनेषूज्झितेषु व्यक्तेषु सत्सु । एतेन हिरण्यगर्भस्यापि वयं मान्याः किं १ 'श्यालकमित्रमातुलसुता' इति पाठ: । २ 'सक्रोधं प्रकाशम्' इति पाठः ।