पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् दम्भः – ( दन्तान्संपीयं वटुं पश्यति ।) बटुः– दूरे तावत्स्थीयताम् । वाताहताः प्रस्वेदकणिका: प्र- सरन्ति । अहंकार:- अहो, अपूर्वमिदं ब्राह्मण्यम् । बटुः – ब्रह्मन् एवमेतत् । तथाहि — अस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः । , नीराजयन्ति भूपालाः पादपीठान्तभूतलम् ॥ ८ ॥ अहंकारः – (खगतम्) अये, दम्भग्राह्योऽयं देशैः । (प्रकाशम् ) भवतु । अस्मिन्नासने उपविशामि। ( तथा कर्तुमिच्छति ।) बटुः – मैवम् । नाराध्यपादानामन्यैरासनमाक्रम्यते । अहंकारः - आः पाप, अस्माभिरपि दक्षिणरौढा प्रदेशप्रसिद्ध- विशुद्धिभिर्नाक्रमणीयमिदमासनम् । शृणु रे मूर्ख, नास्माकं जननी तथोज्ज्वलकुला सच्छेत्रियाणां पुन- ढा काचन कन्यका खलु मया तेनास्मि ताताधिकः । यम् ॥ ७॥ बटुं पश्यतीत्यार म्यैवमेवेत्यन्तं सष्टम् । तथाहीत्यादि । यस्य मद्गुरोः पादपीठान्तर्भूतलं भूपाला अस्पृष्टचरणाः सन्तः पादपीठसमीपभूतलमेव चूडामणि मरीचिभिर्नीराजयन्तीत्यन्वयः ॥ ८॥ अहंकार इत्यारम्य आः पापेत्यन्तं सष्टम् ॥– नास्माकं जननीत्यादि । तथोज्ज्वलकुला | यथा कन्योज्ज्वलकुला मया व्यूढा तथा मातोज्ज्वलकुला न भवति । तेन कारणेन ताताधिकोऽस्मि पितरम- रभ्य तथा हीत्यन्तं निगदव्याख्यानम् । अहो इत्युपहासोक्तिः । अपूर्वमिदं ब्राह्म- ण्यन् ॥ — अस्पृष्टेति । हि निश्चितं भूपालाः राजानोऽस्य दम्भस्य पादपीठस्यान्ते- इवसाने निकटे भूतलं चूडामणिमरीचिभिर्मुकुटमाणिक्यरश्मिभिनीराजयन्त्यारातिं- वयक्रिययोपचरन्ति । कीदृशा भूनिपालाः । अस्पृष्टचरणा: नस्पृष्टौ चरणौ यैस्ते । चरणस्पर्शरहिता इत्यर्थः । एतेन राजपूजानिबन्धनमेव ब्राह्मण्यम् न विद्यातपोव्रतै- र्दाम्भिकानामिति भावः ॥ ८ ॥ अहंकार इत्यारभ्य शृणु रे मूर्खेत्यन्तं सुबोधम् । सुबोधमध्ये परेपामासनोपवेशेनाहंकारोत्यनाचारीति नैवमाराध्यपादानामित्यनेन ध्वनितन् ॥–नास्माकमिति । अस्माकं जननी माता तथोज्ज्वलकुलोत्कृष्टकुला १ 'पीडयित्वा । दूरे' इति पाठः । २ 'यस्व' इति पाठः । ३ 'देश: । भवतु' इति पाठः । ४ ‘नैवमाराध्यपादानामासनमन्यैराक्रम्यते' इति पाठः । ५ 'राडाप्रसि- शुद्धिभिर्नाक्रमणीयं' इति पाठः ।