पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] D चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् नैवाश्रावि गुरोर्मतं न विदितं कौमारिलं दर्शनं तत्त्वज्ञानमहो न शारिकगिरां वाचस्पतेः का कथा । सूक्तं नापि महोदधेरधिगतं माहात्रती नेक्षिता सूक्ष्मा वस्तुविचारणा नृपशुभिः स्वस्थैः कथं स्थीयते ॥ ३ ॥ प्रविशतीत्यादि । मूर्खबहुलं मूर्खप्रायम् । पशुतुल्यमित्यर्थः । नैवाश्रा- वीत्यादि । गुरोः प्रभाकरगुरोर्मतं शास्त्रं नैवाश्रावि नाधीतमेव । कौमा- रिलं कुमारिलो भट्टाचार्यस्तेन कृतं शास्त्रं दर्शनं कौमारिलं न विदितं न ज्ञा- तम् । शारिकगिरां शारिका अस्य कार्यत्वेन सन्तीति शारिकः । अर्श आदिवादच् । तस्य गिराम् । यद्वा शारिकाख्यो ग्रन्थः तत्संबन्धिन्यो गिर- स्वासाम् । ‘पुंवत् –' इत्यादिना पुंवद्भावः । शारिका नाम गुरुकृतस्य निवन्धनवि- वरणाख्यस्य शावरभाष्यटीकाद्वयस्य पञ्चकाद्वितयं ऋजुविमलादीपशिखाख्यं तद्गिरां तत्त्वज्ञानं सिद्धान्तज्ञानं नास्ति । अहो आश्चर्यम् । वाचस्पतेः का कथा । अत्र वाचस्पतिशब्देन तत्कृतो ग्रन्थस्तस्य का कथा वार्ता । अविदितपूर्वमीमां- सातत्त्वस्य वाचस्पतिमततत्त्वापरिज्ञानात् । महोदधिर्नाम शारिकनामा सह ब्रह्मचारी गुरुमतेर्निबन्धनकर्ता भवनाथवत् तस्य सूक्तं सिद्धान्तरहस्यं नाधिग- तम् । माहात्रतं महाव्रतो नाम भट्टमतानुवर्ती महोदधिप्रतिस्पर्धी भवदेवव- द्भवनाथवत् शारिकनाथमहोदधिमतानुवर्ती महोदधिः शारिकनाथप्रतिस्पर्धी इदा- नीमाचार्यमते भवदेवमतस्य गुरुमते भवनाथमतस्यैव प्राचुर्यमिति ग्रन्थकारै- रनुल्लिखित्तमपि मतद्वयमस्माभिरुक्तम् । सूक्ष्मा तद्वत्तुविचारणा | गुरुमुखादिति शेषः । नेक्षिता नाभ्यस्ता । अतो नृपशवः । ज्ञानशून्यानां पशुतुल्यतया पशुव व्यपदेशः । यथोक्तम्– 'आहारनिद्राभयमैथुनानि समान्यमीषां ( सामान्यमे - तत् ) पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः स मानाः ॥' इति । ज्ञानसाधनभूतां विचारणां विहाय स्वस्थैः स्वस्थचितैः । कथं ५३ नैवेति । नृपशुभिर्मनुष्यरूपैः पशुभिर्गुरोः प्रभाकरस्य मतं नैवाश्रावि नैव श्रुतम् । तौतातितं दर्शनं कौमारिलं शास्त्रं न विदितं नैव शातमित्येवकारानुषङ्गः । सर्वत्र अहो इत्याश्चर्ये । शारिकगिरां प्रभाकरमतावलम्विवाचां तत्त्वमनारोपितरूपं स्व- रूपं नैव ज्ञातम् । वाचस्पतेर्न्यायभाष्यव्याख्यातुर्वेदान्तभाष्यव्याख्यातुश्च का कथा । न कापि वाव्यर्थः । महोदधेः सूक्तं शेषप्रणीतभाष्यस्य सूक्तं स्पष्टमपि नाधिगतम् । दुरुक्तं तु न सुतराम् । महाव्रतं पाशुपतव्रतं तत्संबन्धिनी माहाव्रती पाशुपतशास्त्रसं- हतिनेंक्षिता न दृष्टा । वस्तुविचारणा सूक्ष्मा, वस्तु औपनिषदं ब्रह्म तद्विचारणा १ ' तातातितं' इति पाठः । २ ' तत्त्वं ज्ञानं ' इति पाठः ।