पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः ( विलोक्य ।) कोऽप्ययं पान्थो भागीरथीमुत्तीर्य सांप्रतमित एवा- भिवर्तते । तथा च यथैषः- - ज्वलन्निवाभिमानेन ग्रसन्निव जगत्रयीम् । भर्त्सयन्निव वाग्जालैः प्रज्ञयोपहसन्निव ॥ २ ॥ तथा तर्कयामि । नूनमयं दक्षिणराढाप्रदेशादागतो भविष्यति । `तदेतस्यार्यस्याहंकारस्य वृत्तान्तमनुस्मरिष्यामि । (इति परिक्रामति) (ततः प्रविशत्यहंकारो यथानिर्दिष्टः ।) अहंकारः – अहो, मूर्खबहुलं जगत् । तथाहि-

क्रीडित्वा दिवा धूर्तेः सर्वज्ञा इति, दीक्षिता इति, चिरप्राप्ताग्निहोत्रा अवि- च्छिन्नाग्निहोत्रा इति, ब्रह्मज्ञा जीवन्मुक्ता इति, तापसा वानप्रस्था इति मन् नीषां जगतां खेषु संपादयद्भिर्जगद्वञ्च्यते प्रतार्यते ॥ १ ॥ – विमर्शादनुनि- र्णयाख्येन पताकास्थानकेन पात्रप्रवेशं सूचयति — कोऽव्ययमित्यादि । तदुक्तं सरस्वतीविलासे—– 'पताकास्थानकं प्राहुर्भाविनोऽर्थस्य सूचनम् । चतुर्भिः कारणैरेतैश्चतुर्धा परिकीर्तितम् ॥ सहसैवार्थसंपत्त्या विमर्शादनुनिर्णयात् । तु ल्येन संविधानेन तथा तुल्यविशेषणात् ॥' इति । अत्र विमर्शदनुनिर्णयः । को- ऽप्ययं पान्थ इति संदित्यमानमयमित्यनुनिर्णयात् । यथा विक्रमोर्वशीये सूत:- ‘आयुष्मन्, पूर्वस्यां दिशि महता रथवेगेनोपदर्शितः शब्दः । अयं च गगनात्कोऽपि तप्तचामीकराङ्गदः । अधिरोहति शैलाग्रं तडित्त्वानिव तोयदः ॥ पश्यन्त्योऽप्सरसः- अम्मो चित्तरहो । ततः प्रविशति चित्ररथः । ततः पात्रस्यावधारणानन्तरमप्स- रोमिरम्मो चित्तरहो इत्युक्तिरिति निर्णीतम् । तदिदं विमर्शानुनिर्णयकृतं पताकास्था- नकम् ॥ ज्वलन्निति | स्पष्टार्थः ॥ २ ॥ तथेति । दक्षिणराढाप्रदेशाद्दक्षिणराढाना- मैकं धारानगरं वाराणस्या दक्षिणस्यां दिशि वर्तते गौडराष्ट्रादागतः । गौडराष्ट्रमहंका- रोत्पत्तिस्थानमिति प्रसिद्धिः । परिक्रामतीति । परिक्रमणममिनयविशेषः । ततः दितैः संतुष्टैः । पुनः कीदृशैः । निर्भरोऽतिशयितो मन्मथोत्सवो मैथुने रतिः प्रीति- र्येषां तैः । सुगममन्यत् ॥ १ ॥ यथैष इत्युत्तरान्वदि ॥ — ज्वलन्निति । पूर्वार्ध सुगमम् । वाग्जालैर्जगत्रयं भर्ल्सयन्निवेत्यनुपङ्गः । उपहसन्नुपहासं कुर्वन्निवेत्यत्रानु पङ्गो जगत्रयमित्यस्य || २ ॥ वृत्तान्तं समाचारमनुस्मरिष्यामि ज्ञास्यामि ॥ - १ 'तदेतस्मात्' इति पाठः ।