पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः , मतिः– *अज्जउत्त, जदो सो सहजआणन्दसुन्दलसहाओ णि- च्चप्पआसो पप्फुरन्तसअलतिहुअणप्पआरो परमेस्सरो सुणीअदि । ता कहं एदेहिं दुन्विणीदेहिं वधिअ महामोहसाअरे णिक्खित्तो । राजा – प्रिये, सततधृतिरप्युच्चैः शान्तोऽप्यवाप्तमहोदयो- ऽप्यधिगतनयोऽप्यन्तःखच्छोऽप्युदीरितधीरपि । त्यजति सहजं धैर्य स्त्रीभिः प्रतारितमानसः - स्वयमपि यतो मायासङ्गात्पुमानिति विश्रुतः ॥ २५ ॥ ४०

  • आर्यपुत्र, यतोऽसौ सहजानन्दसुन्दरस्वभावो नित्यप्रकाशः प्र-

स्फुरत्सकलत्रिभुवनप्रचारः परमेश्वरः श्रूयते । तत्कथमेतैर्दुर्विदग्धैर्बवा महामोहसागरे निक्षिप्तः । इति लक्षणम् ॥ – सततधृतिरित्यादि । सतता नित्या धृतिधैर्य यस्य सः । अपिशब्दो गर्दायाम् । उच्चैरुन्नतः शान्तः स्वभावेन शान्तिमान् । अवाप्तमहो- दयोऽवाप्तकामः । अधिगतनयः अघिगतो नयो नी तिर्यस्य सः । नयैर्न्यायैरधि- गत इत्यर्थः । अन्तःस्वच्छः स्वच्छान्तःकरणः । स्वच्छघन इत्यर्थः । उदीरितधीः उदीरिता उच्चैः पः स्तुता धीर्यस्य | धीरूपश्चाधीरूपत्वेनोदीरित इत्यर्थः । अपि । तथापीत्यर्थः । धैर्यं सततधृत्यादिकं स्त्रीमिः प्रतारितमानसः प्रतारितं वश्चितं मो- हितं मनो यस्य । विधेयविशेषणमेतत् । प्राकृतो जन इति शेषः । धैर्यादिकं त्यजतीत्यन्वयः । स्वयमपि परमात्मापि मायासङ्गादविद्यासंपर्कात्पुमानिति । निरञ्जनः निर्गतमञ्जनं मोहावरणं यस्मात् ॥ २४ ॥ [मतिः—–आर्यपुत्र, यतोऽसौ सहजानन्दसुन्दरस्वभावो नित्यप्रकाशः स्फुरत्सकलत्रिभुवनप्रचारः परमेश्वरः श्रयते । तत्कथमेतैर्दुर्विनीतैर्बवा महामोहसागरे निक्षिप्तः ।] — सततेति । पुमान्सहजं खा- भाविकमपि धैर्य त्यजति । औपाधिकं त्यजतीत्यत्र किं चित्रम् । धैर्यत्यागे हेतुमाह - स्त्रीभिरिति । स्त्रीमिः प्रतारितं वञ्चितं मानसं यस्य सः । उच्चैरिति सर्वत्र संबन्ध- नीयम् । कीदृशोऽपि । सततं निरन्तरं धृतिधैर्य यस्य तादृशोऽपि, शान्तोऽपि जिते- न्द्रियोऽपि, अवाप्तो महोदय ऐश्वर्य येन तादृशोऽपि, अधिगतो ज्ञातो नयो नीतियन तादृशोऽपि, अन्तःस्वस्थोऽध्यव्यग्रान्तःकरणोऽपि, उदीरिता समयोचिता वृद्धिर्यस्य तादृशोऽपि । स्वस्मिन्नेवेदं सर्वमवलोक्यतामित्याह – स्वमपीति । यद्यस्माद्धेतो- । १ 'स्वमपि यदयं मायासङ्गात्पुमानिह विस्मृतः' इति पाठः ।