पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् चटोर्मदविस्फूर्जितं वचो यदस्मानेव पापकारिण इत्याक्षिपति । मतिः – *अज्जउत्त, किं अप्पनो दोसं लोओ विआणादि । - राजा - पश्य । असावहंकारपरैर्दुरात्मभि- र्निबध्य तैः पापशठैर्मदादिभिः । चिरं चिदानन्दमयो निरञ्जनो 771577 Jo जगत्प्रभुर्दीनदशामनीयत ॥ २४ ॥ त ते पुण्यकारिणो वयं तु तन्मुक्तये प्रवृत्ताः पापकारिण इ- त्यहो जितं दुरात्मभिः ।

  • आर्यपुत्र, किमात्मनो दोषं लोको विजानाति ।

गतां चिन्तां नाटयित्वेत्यर्थः । - मतिरिति । किमित्याक्षेपे । न विजानातीत्यर्थः । असावित्यादि । अहंकारपरै रहंकारानुवर्तिभिर्दुरात्मभिर्दुष्टचित्तैर्दुष्टान्तःकरणो- त्पन्नैश्च पापशठैः पापाश्च ते शठाश्च पापशठास्तैः । विशेषणसमासः । - मदादि- भिरिति । आदिशब्देन मात्सर्यादयो गृह्यन्ते । चिदानन्दमयश्चित्स्वरूपः । आन- न्दमय आनन्दवरूपः । स्वार्थे मयट् । ननु आनन्दादयो ब्रह्मणो धर्माः, नेत्याह- निरञ्जन इति । ननु निरञ्जनस्य निर्विशेषस्य जगत्प्रभुत्वं 'यतो वा' इत्यादि- श्रुतिचोदितं कुत इत्याशङ्कय तदविद्यानिबन्धनमित्याह-जगत्प्रभुरिति । एतादृशः परमेश्वरो दीनदशां दुरात्ममिरनीयतेत्यर्थः ॥ २४ ॥ एतदुक्तं भवति । चिदानन्दघनो निरञ्जनो जगत्प्रभुरहंकारादिभिरवलीढः सन् अज्ञानीव दुःखीव साजन इव अनीश्वर इव प्रतिभाति । दीनमिति भावे निष्ठा । अत्र विलोभनं नाम मुखसन्धेश्चतुर्थमङ्गम् | बीजस्य गुणाख्यानात् । 'गुणाख्यानं विलोभनम्' विष्कम्भक इति प्राक्तननटसंक्षेपः । उत्कृष्टपात्रप्रवेशः । राजा विवेकः । [ मतिः- आर्यपुत्र, किमात्मनो दोषं लोको विजानाति ? ] ॥ — असाविति । तैः प्रसिद्धैमैदादि- भिरसौ जगत्प्रभुः परमात्मा चिरं चिरकालं दीना या दशा आनन्दशून्या दशा ताम- नीयत प्रापितः । कीदृशैर्मदादिभिः । अहंकारः परः प्रथमो येषां तैः । पुनः कीदृशैः । दुरात्मभिर्दुष्टस्वभावैः । किं कृत्वा । पाशशतैः पाशा वासनासंस्काररास्तद्रुपैनि- बध्य नियम्य । कीदृशो जगत्प्रभुः । चिदानन्दमयो ज्ञानस्वरूपः । पुनः कीदृशः ।