पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{]ion] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ २२ ॥ इति पौराणिक गाथां पुराणविद उदाहरन्ति । अनेन चास्माकं जनकेनाहंकारानुवर्तिना जगत्पतिः पितैव तावद्वद्धः । मोहादि- भिश्च स एव बन्धः सुदृढतां नीतः । ३७ काम:- - ( विलोक्य ) प्रिये, अयमस्माकं कुले ज्यायान् मत्या देव्या सह विवेक इत एवाभिवर्तते । य एषः— रागादिभिः सैरसचारिभिरात्तकान्ति- निर्भयमान इव मानधनः कृशाङ्गः । मत्या नितान्तकलुषीकृतया शशाङ्कः कान्स्येव सान्द्रतुहिनान्तरितो विभाति ॥ २३ ॥ इति श्लोकपटनानन्तरं विशेषणानां दूषणात्मना तुल्यविशेषणतयात्मोपालम्भं मन्यमानः प्रविशतीति । आः पाप दुरात्मन्, कथमस्मानेव पापकारिण इत्याक्षि- पसीति । अनेनास्माकं जनकेनाहंकारसन्तानानुवर्तिना जगत्पतिः परमेश्वरः पि- तैव बद्धः । अतो युक्तम् गुरोरप्यवलिप्तस्येत्यादि । उत्पथमसन्मार्गमाचर- माणस्य ॥ २२ ॥ - रागादिभिरिति । रागद्वेषलोभादिभिः सरसचा- रिभिः सरसेषु रसिकजनेषु चरन्ति तैः । 'स्वरसचारिमिः' इति वा पाठः । स्वच्छन्दचारिभिरित्यर्थः । निर्भर्त्स्यमान इवात्तकान्तिर्निस्तेजस्को मानधनः मान एव धनं यस्य सः । यस्तु शत्रुतिरस्कारे सति धैर्य न त्यजति स मान- धनः । कृशाङ्गः । विवेकस्य परिपूर्णकार्यजननासमर्थत्वात्कृशाङ्गताव्यपदेशः । नितान्तमत्यर्थम् । रागादिभिः कलुषीकृतया मत्या सान्द्रतुहिनान्तरितो नीहार- - नेपथ्ये जवनिकायाम् ॥ — गुरोरिति । अवलिप्तस्य सगर्वस्य । उत्पथप्रतिपन्न- स्योन्मार्गगामिनः । शेषं सुगमम् ॥ २२ ॥ — गाथां पदसंदर्भरूपाम् ॥— - अनेनेति । जनकेन मनसाहंकारानुवर्तिनाहमाकाराध्यासयुक्तेन जगत्पतिः पितैव परमेश्वर एव । य एषः । रागादिभिरिति । य एष पूर्वोक्तो विवेको मत्या बुद्ध्या विभाति । कथंभूतया मत्या । रागादिभिनितान्तमतिशयेन कलुषीकृतया । कीदृशै रागादिभिः । स्वरसचारिमिरविविच्य स्वेच्छाप्रवृत्तैः । आदिशब्देन मोहादयः । तैरात्ता कान्तिर्यस्य । उत्प्रेक्ष्यते । निर्भर्त्स्यमान इव प्रति [ निःप्रभी ] क्रियमाण १. 'स्वरसचारिभिः' इति पाठः ।