पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः कामः – प्रिये कुलक्षयप्रवृत्तानां पापकारिणां कुतः स्वपरप्र- - त्यवायगणना | पश्य पश्य- सहजमलिनवक्रभावभाजां - भवति भवः प्रभवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनु प्रयाति नाशम् ॥ २१ ॥ ( नेपथ्ये ) आः पाप दुरात्मन्, कथमस्मानेव पापकारिण इत्या- क्षिपसि । ननु रे । क्रिया' इति लक्षणम् । काम इत्यादि । गणनेत्यादि स्पष्टम् ॥ — सहजेत्यादि । सहजमलिनवक्रभावभाजां मलिनाश्च वक्राच मलिनवक्राः तेषां भावः, सह- जश्चासौ मलिनवक्रभावश्च तं भजन्ति तेषाम् । युक्तायुक्तविवेकशून्यानामि- त्यर्थः । धूमपक्षे मलिनभावो नैल्यं कुटिलभावो वेल्लनं भव उत्पत्तिः प्रभवा- त्मनाशहेतुः प्रभवत्यस्मादिति प्रभव उत्पत्तिस्थानं तस्यात्मनश्च विनाशहेतुः । तद- वसरे दृष्टान्तमाह—जलधरेत्यादि । जलधरपदवीं मेघात्मतां प्राप्य । वृष्टि- मुत्पाद्येति शेषः । ज्वलनविनाशमनु ज्वलनविनाशमनुसृत्य | ज्वलनविनाशं कृत्वा तदनन्तरमित्यर्थः । धूमः स्वयमपि नाशं प्रयाति । स्वयमपि नश्य- तीत्यर्थः । अत्र दृष्टान्तालंकारः । यमादेर्धूमस्य च परस्परं बिम्बप्रतिबिम्वभावे- नौपम्याक्षेपाद्यथा धूमो वृष्टिमुत्पाद्याश्रयं नाशयित्वा स्वयमपि नश्यति तथा यमा- दयोऽपि विद्यामुत्पाद्य स्वकारणं नाशयित्वा स्वयमपि नश्यन्तीति भावः । अत्र परिन्यासो नाम तृतीयमङ्गम् । 'तस्य दार्ढ्य परिन्यासः' इति लक्षणम् । मलिना- नामयं स्वभाव इत्यर्थान्तरन्यासेन बीजारम्भस्य दृढीकरणात् ॥ २१ ॥ - नेपथ्य इति । नेपथ्यस्वरूपं कथितं प्राक् । अत्र विष्कम्मेनाङ्गपात्रप्रवेशमाक्षिपति आः पाप दुरात्मन्नित्यादि । यद्वा सहजमलिनेत्यादिना तुल्यविशेषणेन पा- त्रप्रवेशमाक्षिपति-‘सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः' । जना ॥ सहजेति । मलिनं दुष्टमत एव वक्रं भावं चित्ताभिप्रायं भजन्ति सेवन्ते ये तेषां भव उत्पत्तिः प्रभवस्योत्पत्तिस्थानस्यात्मनश्च नाश हेतुर्भवति । उक्तो- इर्थान्तरन्यासः । धूमो जलधरपदवीमवाप्य मेघमार्गपर्यन्तं गत्वा खोत्पत्तिस्थानं बह्निस्तन्नाशमनु नाशं प्रयाति । धूमोऽपि मलिनो वक्रभावश्चेति भावः ॥ २१ ॥ १ 'कुत: प्रत्यवायः' इति पाठः ।