पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ प्रबोधचन्द्रोदयम् - पुरुषः – अतः परमपि किं प्रियमस्ति । यतः- प्रशान्तारातिरगमद्विवेकः कृतकृत्यताम् । [ षष्ठोऽङ्कः नीरैजस्के सदानन्दे पदे चाहं निवेशितः ॥ ३२ ॥ तथाप्येतदस्तु– ( भरतवा क्यम्) पर्जन्योऽस्मिन् जगति महतीं वृष्टिमिष्टां विधत्तां राजानः क्ष्मां गलितविविधोपप्लवाः पालयन्तु । पर्ज- उपकरोम्युपहरामि । ददामीत्यर्थः ॥ - प्रशान्तेति । प्रशान्तो विगलितोऽरातिः शत्रुर्महामोहो यस्य सः । कृतं कृत्यं यस्य स कृतकृत्यस्तस्य भावस्तत्ता। अयमर्थः- अविद्यानिवृत्तिरेव कृतकृत्यता । नीरजस्के निस्तमस्के निष्कलके सदानन्दे सन्च तदानन्दं च सदानन्दे पदे वस्तुनि चाहं जीवात्मा निवेशितः सारूप्यं प्रापितः । अयं भावः । विवेकी राजा मन्मित्रं निःसपत्नं राज्यं कुर्वन् कृतकृत्योऽभवत् । भगवत्या विष्णुभक्त्या मन्मित्रे विवेके कृतकृत्यतां नीते सति अहमपि सदा- नन्दरूपेणावस्थित इति विष्णुभक्तेः सकाशात्फलप्राप्तिप्रतिपादनात्फलाप्तिर्नाम त्रयोदशमङ्गम् । तलक्षणं तु 'फलाप्तिः फलनिष्पत्तिः' इति ॥ ३२ ॥ तथा पीति । एतदस्तु वक्ष्यमाण आशीर्वादो भूयात् । भरतवाक्यमेतत् ॥ न्य इत्यादि । इष्टां सस्यादिगुणाम् । राजानः प्रजारञ्जनशीलाः गलितविविधो- ॥ ३१ ॥ प्रशान्तारातिं निर्दलितमोहं भवन्तं विवेकम् । अतः परमतोऽस्मात्परमुस्कृ- टम् । अतः परमित्युक्तस्यार्थं वदन्फलितमर्थमाह–प्रशान्तेति । विवेकः कृतकृत्य तामगमत्परिनिष्पन्नकायोंऽभूत् । कीदृशो विवेकः । प्रशान्तो व्यस्तोऽरातिमोंहरूप: शत्रुर्येन सः । यद्वा । प्रकर्पेण शान्तः कामक्रोधायरिषङ्कगों येन । विद्याप्रबोधौ श्रीमत्यां विष्णुभक्तेः प्रसादान्महामोहं ससैन्यं विनाश्य श्रीमता विवेकेन समुत्पा दिताविति ध्वनितम् । भो नीरजाक्षि कमलनयने, सदानन्दे पदेऽविनाशिपरब्रह्मपदे जीवन्मुक्तिलक्षणेऽहं निवेशितः स्थापितः । इतोऽन्यः पुरुषार्थो नास्तीति भावः । 'नीर- जस्के सदानन्दे' इति पाठे निर्गतं रज आवरणरूपं यस्मात्तस्मिन्निरावरणे पदे इत्यस्य विशेषणम् ॥ ३२ ॥ नीरजस्कं सकलशास्त्ररहस्यं प्रवोधचन्द्रोदयाख्यनाटकच्छलेना. पाततः प्रदर्य स्थले स्थले पूर्वपक्षापरपक्षौ कृत्वा वेदान्तसिद्धान्तानपि प्रदर्श्य विवॆक- पुरःसरं कामक्रोधादिपाखण्डागमपराजयद्वारा च सर्वानपि संसारनिराकरणपरिप न्थिनः पराभूयान्तेऽन्तेवासिनमतिदयापात्रं सम्यगवबोध्य विष्णुभक्ति प्रार्थयन्तः श्री- कृष्णमिश्रा: ग्रन्थान्ते आशीर्लक्षणं मङ्गलमाचरन्ति — तथाप्येतदस्त्विति । पर्जन्य इति । पर्जन्यो जलपूर्णो मेघोऽस्मिञ्जगत्यस्यां भूमौ महतीमिष्टां समये यावदपेक्षि- १. 'नीरजाक्षि' इति पाठः । । -