पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् २४१ सर्वथा कृतकृत्योऽस्मि भगवत्या विष्णुभक्तेः प्रसादात् । सो- ऽहमिदानीम् - सङ्गं न केनचिदुपेत्य किमप्यपृच्छन् गच्छन्नतर्कितफलं विदिशं दिशं वा । शान्तो व्यपेतभयशोककषायमोहः स्वायंभुवो मुनिरहं भवितास्मि सद्यः ॥ ३१ ॥ (ततः प्रविशति विष्णुभक्तिः ।) विष्णुभक्तिः– (सहर्षमुपसल) चिरेण खल्वस्माकं संपन्नाः सर्वे मनोरथाः । येन प्रशान्तारातिं भवन्तमवलोकयामि । - पुरुषः – देव्या विष्णुभक्तेः प्रसादाकिं नाम दुष्करम् । ( इति पादयोः पतति ।) - विष्णुभक्ति: - (पुरुषमुत्थापयति ।) उत्तिष्ठ वत्स, किं ते भूयः प्रियमुपकरोमि । प्रकृतस्यानुसर्पणम्' इति तलक्षणात् ॥३०॥ - सङ्गमिति । न केनचित्सङ्गमुपेत्य । सर्वत्रासङ्गः सन्नित्यर्थः । किमप्यपृच्छन्प्रश्नमकुर्वन् । अतर्कितफलं अनुदेशफलम् । क्रियाविशेषणमेतत् । विदिशं विदिग्भागं गच्छन् । यादृच्छिकगमनं कुर्वन्नित्यर्थः । शान्त उदासीनः । व्यपेतभयशोककषायमोहः । व्यपेता गलिताः भयं भीतिः शोको दुःखं कषायो रागद्वेषादिकालुष्यं मोहोऽज्ञानं यस्मादिति । खायम्भुवो नित्यमुक्तः मुनिर्निंदिध्यासवान् अहं सद्यो भवितास्मि । भवामीत्यर्थः । 'सायं- गृहः' इति पाठे सायंकाले गृहमागत इत्यर्थः । 'सोऽहंग्रहः' इति पाठे तु सोह- मिति ग्रहो ग्रहणं ज्ञानं यस्य सः एवंविधः सन् अहं मुनिर्भवितास्मीत्यर्थः ॥ ३१ ॥ ततः प्रविशतीत्यारभ्य पुरुषमुत्थापयतीयन्तं सुगमम् । उत्तिष्ठेति । उत्पन्नब्रह्मसाक्षात्कारस्य वर्तमानप्रारब्धस्यावस्थामाह–सङ्गमिति । सोऽहं सायंका- लेन विशिष्टं स्थानमेव गृहं यस्य स सायंगृहो मुनिर्मननशीलः सद्यो भविता | इ- दानीं भविष्यामीत्यर्थः । सङ्गं यदृच्छावशात् न केनचिदप्युपेत्य प्राप्य किमप्यपृच्छन् न पृष्टवान् । प्रयोजनाभावादिति भावः । दिशं प्राच्यादि विदिशमाग्नेय्यादिम् । न त किंतं फलं प्रयोजनं यथा स्यात्तथा गच्छन्परिभ्रमन् शान्तो रागद्वेषादिशून्यः व्यपेता गताः भयं च शोकश्च कषायश्च प्रारब्धातिरिक्तकर्मफलभोगः मोहश्च यस्मात्तादृशः १. 'सायंगृहो' इति पाठः ।