पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः पुरुषः ततस्ततः । उपनिषत् — ततोऽहं तामपि तथैवाश्रयमभ्यर्थितवती । अथ कर्तरि व्रतं करणे प्रयाजशेषाभिघारणं, संप्रदाने पशुपुरोडाशयागः, अपादाने अग्नेस्तृणान्यपचिनोतीति, अधिकरणे दध्यानयनम् । आरादुपकारकं कारकद्वा- रकं अपूर्वद्वारकं प्रधानस्योपकरोतीत्युभयार्थः पशुपुरोडाशयागः । सहि त्यागांशेनाऽदृष्टं उद्देशांशेन च दृष्टं देवतास्मरणं करोतीत्युभयार्थः । नन्वेवम् ‘एकं चा चेदनेकत्वात्' इति न्यायेन विध्युपपत्तेः प्रयोजनद्वयमनुपपन्न मिति चेत् दृष्टार्थ- 'वादिप्रयोजनापेक्षायां स्मरणं प्रथमं स्वीक्रियते । स्वीकृते च तस्मिन् त्यागांशस्य तत्र प्रयोजनमपश्यतः पुनरपेक्षा जायते । सा चादृष्टकल्पनेन निवर्तते । तेनैवं- जातीयकमुभयोर्लिङ्गमुभयोपकारकतामावहति । तत्र निरपेक्षस्वरूपा श्रुतिः । सा द्विविधा । द्वितीया श्रुतिर्वाक्यरूपा श्रुतिश्चेति । 'सर्वभावगता शक्तिर्लिङ्ग- मिल्यमिधीयते । वाक्यं तु पदसंघातमात्र मित्युदितं बुधैः ॥ इतिकर्तव्यताकाङ्क्षा प्रक्रिया परिकीर्तिता । वार्तानुष्ठानसादेश्यमेदेन द्विविधः क्रमः ॥ समाख्या यौगिकी संज्ञा लौकिकी वैदिकी तथा ॥ विनियोजनमेतावदिति भाष्यविदो विदुः' इति ॥ द्विविधं हि शब्दजातम् । उपदेशात्मकमतिदेशात्मकं च । इद- मित्थं कर्तव्यमित्युपदेशः । तद्वदिदं कर्तव्यमित्यतिदेशः । तत्रानुपदिष्टधर्म के वै- न्द्राम्यादिष्वतिदेशेन तत्प्राप्तिः । तच्चोत्तरषट्के कर्मातिदेशनिबन्धनम् । तत्रापि सप्तमे लक्षणे प्रत्यक्षवचननामधेयाभ्यां सापवादः कृत्स्नोऽतिदेशो निरूपितः । आनुमानिकेन वचनेनातिदेशोऽपि सामान्येन तद्विशेषे स्पष्टमेव चिन्तितः । नवमे खतिदिष्टानां दशमायसाध्यं कार्यप्राधान्यं सिद्धवत्कृत्य प्रयोगविशेषे विचार ऊ हाख्यः कृतः । दशमे बाधाभ्युच्चयद्वारेण पदार्थेयत्ता चिन्तिता । एकादशद्वाद- शयोः प्रयोगपरिमाणतन्त्रव्रतं ताभ्यां चिन्तितम् । तत्तु चतुर्थाध्यायशेषभूतमपि पदार्थेयत्ताप्रसङ्गादुत्तरषद्के निरूपितमियलमतिविस्तरेण । एतत्सर्वमभि- संधायोक्तं ग्रन्थकारेण 'विभिद्य कर्माण्यविकारभाजि' इत्यनेन-चतुर्थपञ्चमैकादश- द्वादशाध्यायप्रतिपाद्यं निरूपितम् । उपदेशैरित्यनेन पूर्वषट्कम् अतिदेशै रित्यनेनो- त्तरषट्कं निरूपितमिति ॥ १८ ॥ तत इति । ततो दर्शनानन्तरं तां मीमांसा मपि तथैवाश्रयमभ्यर्थितवती । आर्ये, त्वयि निवस्तुमिच्छामीति यथा यज्ञवि चित्रैर्नानाभेदभिन्नैः सन्निपत्यारादुपकारिभिः प्राप्तोपदेशैः साक्षादुपदिष्टैः । अति- दशोऽन्यत्र श्रुतस्यान्यत्र संबन्धस्तेनापि प्रमाणेन प्राप्तेरभियोजयन्त्युपकुर्वाणा । पुनः कीदृशी मीमांसा | श्रुत्यादिभिः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यादिप्रमाणैरनधिग- तार्थबोधकैरनुगता युक्ता ॥ १८ ॥ अभ्यर्थितवती याचितवती । पार्श्ववर्तिनं समीपव