पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः भवसागरतराणाय या सौ नचिराद्योगतरिस्त्वयाश्रिता । अधुना परिमुच्य तां मदात्कथमङ्गारनदीं विगाहसे ॥ ७ ॥ शान्तिः— ततस्ततः । - श्रद्धा — ततस्तद्वचनमाकर्ण्य स्वस्ति विषयेभ्य इत्यभिधायावधी- रिता मधुमती । २०८ शान्तिः - साधु साधु । अथ व प्रस्थितास्ति भवती । श्रद्धा — आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामि । शान्तिः तत्त्वरतां भगवतीति । श्रद्धा — तदहं राजसन्निधिं प्रस्थिता । - - शान्तिः - अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद्भवतु स्वनियोगं संपादयावः । ( इतिते । ) । तकैः आस्थानपण्डितैर्वश्च कैरित्यर्थः ॥ - भवसागरेति । भवसागरं तरति नौका । औणादिक इप्रत्ययः । अतएव अण्णन्तत्वान सुपो लुक् (१) । तां तरिं प रिमुच्य विहायेत्यर्थः । मदादज्ञानात् । अयमर्थः | सागरतरणोपाये विद्यमाने स्व- ल्पायां नद्यां किमर्थं मज्जसीत्यर्थः । तथाच निरतिशय सुखरूपब्रह्मावाप्तिसाधन- वैराग्यं विहाय घृतसंमिश्रमधुसदृशविषयानुरक्तिं पुनरालम्बसे चेदात्महानिः स्यादिति व्यात दर्शितः ॥ ७ ॥ खस्ति विषयेभ्य इति सोलुण्ठवचनम् । ‘नमःस्वस्ति–’ इत्यादिना चतुर्थी | अवधीरिता मधुमतीत्यनेनान्वेषितकार्यस्य निव- न्धनास्थापनाद्रथनं नाम निर्वहणसन्धेस्तृतीयमङ्गम् । तलक्षणं तु । 'ग्रथनं तन्नि- बन्धनम्’ इति । साधु साधु । अथेत्यादि । अथ तदनन्तरं आस्तां तावदयं प्रसङ्ग इत्यर्थः । अत्र वक्ष्यमाणादेशप्रकारप्रदर्शनपरो यथाशब्द एवं प्रकारमाह । विवेकमित्यादिना स्वामिवाक्यानुवादोऽयम् । तत्तस्मात्कारणादहं श्रद्धा प्रस्थिता रेण विषमा दुःसहा विषया एवाङ्गारास्तेषु नावबुध्यसे न जानासि । भवेति । भव एव संसार एव सागरः समुद्रस्तस्मात्तारणाय पारगमनाय योग एव तरिनौंका त्वयाश्रिता । प्राप्ता । अधुना इदानीं तां नौकां नचिरात् शीघ्रमेव मदाद्योगविघ्नभूताहंकारात्परिमुच्य त्यवत्वा अङ्गारनदीं विषमविषयप्रवाहां कथं विगाहस आलोडयसि ॥ ७ ॥ तद्वच- नमाकर्ण्य तद्वचनं श्रुत्वरित तिरस्कृता । स्वामिना पुरुषेण । स्वामिनियोगं स्वा- `मिनो बिवेकस्य नियोगमाज्ञां संपादयावः करिष्याव इति निष्क्रान्ते । शान्ति श्रद्धे इत्यर्थात् ॥ १. 'स्वामिनियोग' इति पाठः ।