पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[५] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १८५ मनः – देवि, यद्यप्येवं तथापि न शक्नोमि शोकानलदग्धः प्राणान्धारयितुम् । संपन्नं यदन्तकाले त्वं तावद्दृष्टासि । सरस्वती – इदं च परमकृत्यं यदात्महत्याव्यवसाय इति । अपि च । अमीषामपकारिणामर्थे कोऽयमत्यावेशो भवतः । पश्य तावत्- क्वचिदुपक्कृतिः कर्तामीभिः कृता क्रियतेऽथवा तव न च भवन्त्येते पुंसां सुखाय परिग्रहाः । दीप्तशिखासहस्रशिखराः शिखानां ज्वालानां सहस्रशिखराण्यपरिमितान्यग्राणि दीप्तानि शिखा सहस्रशिखराणि येषां ते तथोक्ताः ॥ १६ ॥ मन इत्यारभ्य यश्य तावदित्यन्तं सुगमम् । परमकृत्यमिति । परं अकृत्यमिति च्छेदः । प्रा- गान्धारयितुं न शक्नोमि । साधु संपन्नं यदन्तकालेऽपि सा त्वं दृष्टासीत्यनेन प्राक् शोकावेशनिश्चितार्थावेगसंरम्भप्रतीतेर्विरोधाख्यं विमर्शसंधेरङ्गमुक्तम् । ‘सं- रब्धं वाग्विरोधनम्’ इति लक्षणात् ॥ क्वचिदुपकृतिरित्यादि । अमीभिरुप- कृतिरुपकारो नास्त्येवेति हृद्गतोऽर्थः । यद्यप्चस्तीति निर्वन्धस्तर्हि क्वचित्कस्मिन् विश्वेशे पुरुष एवेत्यर्थः । तत्रापि नियतमित्यादि । कर्ता करिष्यते । कर्मणि छु । कृता अकारि क्रियते वा । अथवा न केवलं कालनैयत्यं अनुपकारकत्वादेव सर्वमेतत्संदिग्धमिति भावः । परिगृह्यन्त इति परिग्रहाः कलत्रादयः पुंसां पुरु- पाणां सुखाय न भवन्तीत्यर्थः । न केवलममी सुखस्य हेतवः प्रत्युत दुःखहेतव- कुमुदाकरः । तुषाग्निदृष्टान्तो दुःखस्य चिरपाकत्वसूचनायेति भावः । पुनः कीदृशाः शोकद्रुमाः । दीप्ता याः शिखा दुःखान्तरस्मृतयस्तासां सहस्रं शिखरा अग्रभागा उ- द्बोधरूपा येषां ते ॥ १६ ॥ साधु संपन्नं सम्यग्जातमित्यर्थः । इदं चेति । परं स्थूलम् । अकार्यमकृत्यम् । किं तदित्याह — यदिति । व्यवसाय उद्योगः । स्वशरी- रत्यागेनापि दधीचिवत्साधुषूपकर्तव्यमित्याशय नेत्याह–अपि चेत्यादि । अप- कारिणां निरन्तरदुःखदानां भवतो मनसः कोऽयमत्यावेग आदर इत्येषा योजना ॥- क्वचिदिति । एते परिग्रहा: पुत्रकलनादयस्तव सुखाय न भवन्ति । मम सुखाय मा भूवन् । अन्येषां पुंसां पुत्रकलत्रत्वादेव सुखदायका भविष्यन्तीत्याशङ्कय अन्येषा- मपि न कोऽप्युपकार इत्याह । अमीभिः कचित्कुत्रापि पुंसामुपकृतिरुपकारः कर्ता • करिष्यते कृता वा अथ क्रियते न क्वापि कालत्रयेऽपि उपकुर्वन्ति । सुखहेतवोऽपि न भवन्तीति भावः । ननु पुत्रादीनां लालनादौ ब्रह्मानन्दोऽनुभूयत इति वदन्ति १ 'वेगो' इति पाठः । १७