पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ मनः—–भगवति, चकाशं लभते । प्रबोधचन्द्रोदयम् [पञ्चमोऽङ्कः शोकावेगदूषिते मनसि विवेक एवमन- सरस्वती–वत्स, खेहदोष एषः । प्रसिद्ध एवायमर्थः स्नेहः सर्वानर्थप्रभव इति । तथाहि- उप्यन्ते विषवल्लिवीजविषमाः क्लेशाः प्रियाख्या नरै- स्तेभ्यः स्नेहमया भवन्ति नचिराद्वज्राग्निगर्भाङ्कुराः । येभ्योऽमी शतशः कुकूलहुतभुग्दाहं दहन्तः शनै- देंहं दीप्तशिखासहस्रशिखरा रोहन्ति शोकद्रुमाः ॥ १६ ॥ भावः ॥१५॥ भगवतीत्यारभ्य तथाहीत्यन्तं सुगमम् ॥ उप्यन्त इति । उप्यन्ते निक्षिप्यन्ते । वपेर्यजादित्वाद्यकि संप्रसारणम् | विषवल्लीवीजविषमाः | विषवल्लीनां बीजानि तद्वद्विषमा मारकाः प्रियाख्याः पुत्रमित्रकलनादिव्यपदेश्याः क्लेशा दुःखानि। नरैरुप्यन्त इत्यन्वयः। तेभ्य उप्तेभ्यो बीजेभ्यो नचिरादचिरात् । सुम्सुपेति समासः । तदानीमेव स्नेहमयाः स्नेहस्वरूपाः । स्नेहशव्दव्यपदेश्या इति यावत् । वज्राग्निग- र्भाङ्कुराः वैद्युताग्निगर्भे येषां ते च तेऽङ्कुराच भवन्त्युत्पद्यन्ते । येभ्योऽङ्कुरेभ्यो- ऽमी शोकमा रोहन्ति प्रादुर्भवन्ति । कीदृशाः । शनैः मन्दं कुकूलहुतभुग्दाहं करीषाग्निवत् दहन्तः । 'उपमाने कर्मणि च' इति चकारात्कर्तरि णमुल । अयंते चेत्तदा संसायेंव शोकादनिर्मुक्त एव स्यादिति भावः ॥ १५ ॥ भगवतीति सरस्वतीं संबोधयति । हे भगवति सरस्वति, शोकाबेगदूषिते मे मम मनसि विवेको- ऽवकाशं न लभत एवेति योजना | स्नेहस्यानर्थहेतुत्वं प्रकटयति — उप्यन्त इति । नरै- मैनुष्यैः प्रियाख्याः प्रिय इत्याख्या येषां पुत्रायभिलाषाणां ते प्रियाख्या: । नान्नैव प्रियत्वं न स्वरूपतः । त एव वस्तुतः केशा आ उत्पत्तेरा मरणमतिक्लेशजनकत्वात्सं- सारहेतुत्वाच्चोप्यन्त आरोप्यन्ते । कीदृशाः देशाः । विषवल्लीबीजं विषकन्दस्तद्वद्विपमा दु:सहास्तेभ्वोऽभिलाषेभ्यो नचिराज्झटिति स्नेहमयाः स्नेहरूपा वज्राग्निगर्भाः वज्रा- निवत् गर्भो येषां ते च तेऽङ्कुरा दाहच्छेदपातादिसमर्था भवन्ति । येभ्य: स्नेहा- ङ्कुरेभ्योऽमी त्वयि दृश्यमानाः शतशोऽनन्ताः शोकरूपा द्रुमा वृक्षाः रोहन्ति । उद्भव- न्तीत्यर्थः । कीदृशाः शोकद्रुमाः । कुकूलहुतभुग्दाहं कुकूलं तुषमेव हुतं होमद्रव्यं मुनक्तीति कुकूलद्रुतभुक्तषानिस्तद्दाहवयो दाहस्तद्वत् । 'उपमाने कर्मणि च' इति णमुल् । शनैर्मन्दं शरीरं दहन्तः । ‘कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले' इति १ 'दूषिते मयि विवेक एव मे प्रभवः । तथाहि' इति पाठः ।