पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ प्रबोधचन्द्रोदयम् [ पञ्चमोऽङ्कः विष्णुभक्तिः - ततस्ततः । श्रद्धा - ततो देवि, वैष्णवशैवसौरादयो देव्याः सकाशमागताः । - - विष्णुभक्तिः - ततस्ततः । श्रद्धा – तदनन्तरंच- साङ्ख्यन्यायकणादभाषितमहाभाष्यादिशास्त्रैर्वृता स्फूर्जन्यायसहस्रबाहुनिकरैरुयोतयन्ती दिशः । मीमांसा समरोत्सुकाविरभवद्धन्दुकान्तानना वाग्देव्याः पुरतस्त्रयी त्रिनयना कात्यायनीवापरा ॥ ७ ॥ दश | धर्मशास्त्राणि मन्वादीन्यष्टादश | इतिहासा नाचिकेतोपाख्यानप्रभृतयः ॥ ६ ॥ तत इत्यादि । हे देवि विष्णुभक्ते । देव्याः सरखयाः ॥ – साङ्ख्येति । साङ्ख्यं कापिलम् । न्यायोऽक्षपादमतम् । कणाभाषितं वैशेषिकम् । महाभाष्यं पातञ्जलम् । आदिशब्देन सेश्वरसांख्यादयस्तैः शास्त्रैर्वृता परिवृता पूर्वमीमांसा सांख्यादिशास्त्रैरविरुद्धा । 'विविदिषन्ति यज्ञेन दानेन' इत्यादिश्रुतेः । यज्ञदाना दीनां पूर्वमीमांसया प्रतिपादितत्वात् तेषां च ज्ञानोपयोगित्वादिति । अत उक्तं रृतेति । स्फूर्जन्न्यायेति । स्फूर्जन्तो न्यायाद्यधिकरणानि तेषां सहस्रम् । सहस्र- न्याया इत्यर्थः । अतएव बाहवः । न्यायानां वाहुत्वनिरूपणं युद्धोपयोगिलात् । तेषां निवहैः समूहैर्दिश उयोतयन्ती प्रकाशयन्ती मीमांसा पूर्वमीमांसा पूजित विचारवचना । मीमांसाशब्दपूजा च वेदार्थविचारात्मकतया । अतएव 'मान पूजायाम्' इत्यस्माद्धातोः सन्नन्ततया निष्पन्नोऽयं मीमांसाशब्दः । धर्मेन्दुकान्ता- नना । धर्मो वेदार्थः स एवेन्दुः स इव कान्तमाननं यस्याः सा । त्रयी त्रयो वेदाः । आदिग्रहणात्पुराणबहिर्भूताः स्तोत्रकवचादयस्तैरुच्छ्रिता अतिशयिता श्रीः शोभा यस्याः सा । पुनः कथंभूता सरस्वती पद्मं करे यस्याः सा पाठान्तरे पद्मं धर- तीति । पुनः कथंभूता सरस्वती । शशाङ्कन चन्द्रमसा संकाशा तुल्या कान्तिदीप्ति र्यस्याः सा ॥ ६ ॥ वैष्णवमण्वात्मवादिनां मतं, शैवं पाशुपतं शास्त्रं, सौरं सौरा- गमः ॥ - सांख्यन्यायेति । वाग्देव्याः पुरतोऽने समरायोत्सुकोत्कण्ठा मीमांसा यूर्वोत्तरमीमांसा विचारप्रधाना भाट्टप्राभाकरशास्त्ररूपाविरभवत्प्रकटीवभूव । कीदृशी मीमांसा । सांख्यं प्रसिद्धम्, न्यायो गौतमप्रणीतं शास्त्रम्, कुणादेन भाषितं वैशेषिकं दर्शनम्, महाभाष्यादीनि व्याकरणादीनि शास्त्राणि तैर्वृता । युक्तेत्यर्थः । पुनः की- दृशी मीमांसा। स्फूर्जन्तोऽबाधिता ये न्याया अधिकरणानि तेषां सहस्रं त एवं बा