पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् राजा–क्षमे, शृणुमस्तावत्क्रोधविजयोपायम् । क्षमा – देव, विज्ञापयामि । क्रुद्धे स्मेरमुखावधीरणमथाविष्टे प्रसादक्रमो व्याक्रोशे कुशलोक्तिरात्मदुरितोच्छेदोत्सवस्ताडने । धिग्जन्तोरजितात्मनोऽस्य महती दैवादुपेता विप- हुवरेति दयारसार्द्रमैनसः क्रोधस्य कुत्रोदयः ॥ १८ ॥ राजा - साधु साधु । क्षमा – देव, क्रोधस्य विजयादेव हिंसापारुष्यमानमात्सर्यादयो- sपि विजिता एव भविष्यन्ति । ४] १५१ सर्थः ॥ १७ ॥ राजेति । क्षमे, शृणुमः श्रोष्यामः । वर्तमानसामीप्ये वर्तमा- नवत्प्रत्ययः । त्वत्त इति शेषः । त्वत्तः क्रोधविजयोपायः श्रोतव्य इत्यर्थः ॥ - क्रुद्ध इत्यादि । कुद्धे सति क्रोधाविष्टे सति जन्तौ स्मेरमुखावधीरणं स्मेरमुख- मेवावधीरणं तिरस्कारः । अथेति पक्षान्तरे । आविष्टेऽत्यन्तक्रोधाविष्टे प्रसादक्रमः प्रसादपरिपाटी । यादृशः क्रोधस्तादृशं प्रसादावलम्बनं तच्छामकमित्यर्थः । व्याक्रोशे गालिप्रदाने कुशलोक्तिः कुशलप्रश्नः | आस्तां तावदाक्रोशः, भवद्भिः सुखमासितं किमित्यादि । ताडने प्रहारे दुरितोच्छेदोत्सवः । घिग्जन्तोरिति । जन्तोः पामरस्या- जितात्मन इन्द्रियवशगतस्य क्रुद्धस्य दुर्वारा महती विपत् देवाद्विधिवशान्मयि को- धविषये सति आगता प्राप्ता इत्येवं तद्दयारसार्द्रमनसः । मनसामिति पाठः । क्रोधस्य कीदृशं महिषम् । पापकारिणम् । पुनः कीदृशम् | स्वाध्यायदेवपितृयज्ञक्रियाणामका- रणबाधितारम् । तुल्योऽर्थः । पुनः कीदृशम् । दृष्टिभिः स्फुलिङ्गमिव क्रोधं वमन्त- मित्यपि योजना सुसाध्या ॥ १७ ॥ क्रुद्धे स्मेरमुखेति । इति अनेन प्रकारेण दयैव रसः संतोषः । 'रसो जलं रसो हर्षो रसः शृङ्गार इत्यपि इत्यनेकार्थध्वनि- मञ्जरी । तेनार्द्रं मनो येषां ते दयारसार्द्रमनसस्तेषां पुरुषाणां क्रोधस्योदय उत्पत्ति: कुत्र । न कुत्रापीत्यर्थः । इति किम् । अस्याजितात्मनः न जित आत्मा मनो येन तस्य जन्तोः प्राणिनः देवाददृष्टवशात् दुर्वारा दुःखेन वार्यते दुर्वारा, अतएव महती आपद्विपत्तिरुपेता प्राप्तेति । उपायान्तरमाह । क्रुद्धे उत्पन्नक्रोधे जने स्मेरं हास्यं तद्युक्तं मुखं तेनावधारणं सुखदुच्या निरूपणं धन्योऽहं यन्मय्यसौ कुप्यतीति, अथ आविष्टे क्रोधवशे सति प्रसादक्रमः क्षम्यतां महाप्रसाद इति, व्याक्रोशे गालि- १ 'अवधारणम्' इति पाठः | २ 'रसाईमनसाम्' इति पाठः ।