पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० प्रबोधचन्द्रोदयम् प्रतीहारी– एसो देवो । ता उवसप्पतु पिअसही ।

क्षमा – ( उपसृत्य ।) जयतु जयतु देवः । एषा देवस्य दासी क्षमा साष्टाङ्गं प्रणमति । [चतुर्थोऽङ्कः राजा – क्षमे, अत्रोपविश्यताम् । - क्षमा – ( उपविश्य ।) आज्ञापयतु देवः किमर्थमाहूतो दासीजनः । राजा – अस्मिन्सङ्ग्रामे दुरात्मा क्रोधस्त्वया जेतव्यः । क्षमा – देवस्याज्ञया महामोहमपि जेतुं पर्याप्तास्मि । किं पुनः क्रोधं तनुचरमात्रम् । तदहमचिरादेव- तं पापकारिणमकारणबाधितारं स्वाध्यायदेवपितृयज्ञतपः क्रियाणाम् । क्रोधं स्फुलिङ्गमिव दृष्टिभिरुद्वमन्तं कात्यायनीव महिषं विनिपातयामि ॥ १७ ॥

  • एष देवः । तदुपसर्पतु प्रियसखी ।

अतश्चाहमेकैव क्रोधजये परमत्यर्थ श्लाघ्या श्लाघनीया ॥ १६ ॥ उभे परिका- मतः । साष्टाङ्गमिति । अष्टाभिरः करद्वय चरणद्वयललाटोरःस्थलभुजद्वय रूपैः पातः प्रणिपातः । अत्राष्टत्वसंख्यायुक्तान्यङ्गानि । यथाह वृत्तिकारः 'वृत्तिस्थः संख्याशब्दो भाववचनः' इति । यद्वा समाहारद्वन्द्वेऽपि पात्रादिलान्न स्त्रीलम् । अतो न ङीप् ॥ तं पापकारिणमिति । अथ क्रियाणामकारणबाधितारं कारणाभावेन कारणं बिना बाधितारम् । सुप्सुपेति समासः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्टी । दृष्टिभिः स्फुलिङ्गमुद्वमन्तमिव स्थितम् । क्रोधं महिषासुरं कात्याय- नीव विनिपातयामि संहरामि । भविष्यति वर्तमानप्रत्ययः । अचिरादेव हनिष्यामी- [ प्रतीहारी – एप देवः । तदुपसर्पतु प्रियसखी |] उपसृत्येत्यादि देवस्यानुग्रहादि- त्यन्तं सुगमम् । देवस्यानुग्रहादिति । पर्याप्ता समर्था । तनौ शरीरे चरतीति तनुचर: शरीरान्तवती स तु स्वल्पप्रयत्नसाध्य इत्यर्थः ॥ — तं पापकारिणमिति । अहं तं पापकारिणं क्रोधं विशेषेण निपातयामि । कीदृशं क्रोधम् । स्वाध्यायो वेदाध्ययनं, देवयज्ञो ज्योतिष्टोमादिः, पितृयज्ञः श्राद्धपिण्डपितृयज्ञादिः, तपांसि च चान्द्रायणा- दीनि, क्रिया नित्यनैमित्तिकाः तासामकारणबाधितारं कारणं प्रयोजनं विना वाधि- तारं विघट्टितारं विनाशयितारम् । पुनः कीदृशम् । दृष्टिभिर्दृष्टिव्यापारैः स्फुलिङ्गमिवा- निकणमिव वमन्तम् । का कमिव । कात्यायनी दुर्गा महिषमिव महिषासुरमिव ।