पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः यच्छब्दपरामृष्टं ब्रह्मोच्यते । अनेन प्रत्यग्ब्रह्मणोरैक्यलक्षणः काव्यार्थः शब्दतः सूचितः । तथाहि । उपास्मह इत्यत्रोपशब्दः समीपवाची | सामीप्यं तारतम्य- निबन्धनम् । तारतम्यस्य क्वचिद्विश्रान्त्या भवितव्यम् । तद्विश्रान्तिः प्रत्यगात्म- न्येव समाप्यते । तदुक्तं सुरेश्वरवार्तिके – 'उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते' इति प्रल्यगात्मन्यास्महे उपास्महे इति जीवात्मपरमात्मनोरैक्य- मा वयमित्यर्थः । तदैक्यानुसंधानमेव मङ्गलाचरणं ततोऽन्यद्द्रौणमि- 20 । त्यभिप्रायः । यद्यपि सूत्रधारवाक्ये उपास्मह इति नान्वेति तथापि 'महापुरुष- कीर्तितमनुकीर्तयेच्छ्रेयस्कामः' इति स्मृतेर्मध्याह्णार्कमरीचिकेत्यादिपद्यं महा- पुरुषकृष्णमिश्रकीर्तितमनुकीर्तितं सूत्रधारेण । अतो मङ्गलाचरणं सिद्धमिति ध्येयम् । पुनः किंलक्षणं प्रत्यग्रूपमिति तत्राह — अमलमित्यादिना । किमहं- कारादिसंस्पृष्टं ब्रह्म नेत्याह — स्वात्मावबोधमिति | आत्मशब्दोऽन्तःकरणवाची । शोभनश्वासावात्मा च खात्मा । आत्मनः शोभनत्वं यज्ञदानतपोध्ययनजनितसं- स्कारसंस्कृतत्वं तेन स्वात्मनावबुध्यत इत्यववोधम् | स्वच्छान्तःकरणेन ज्ञायमा- नमित्यर्थः । यद्वा प्रकाशान्तरनिरपेक्षेणैव प्रदीपादिवत्प्रकाशत इति स्वयंप्रकाश- मित्यर्थः । अवबोधमित्यत्र कर्मणि व्युत्पत्त्या नपुंसकता प्रथमव्याख्याने । द्वितीय- व्याख्याने तु भावव्युत्पत्त्या पुंलिङ्गता (पादक) मापकत्वादनाविष्टलिङ्गता । मह इति । स्वयंज्योतिः । अत्र श्लोके ब्रह्म तटस्थलक्षणं स्वरूपलक्षणं चोक्तम् । तथा हि । पयःपूरो मध्याह्नार्कमरीचिकाखिव ब्रह्मणि जगदुत्पद्यते । उन्मीलति स्थितिं प्राप्नोति तत्रैव निमीलति च । अतच सृष्टिस्थितिलयकर्तृत्वं 'यतो वा' इत्यादिश्रुतिनिरूपितं प्रतिपादितम् । सान्द्रानन्दमित्यादिना स्वरूपलक्षणं प्रति- पादितमिति ध्येयम् । उपास्मह इत्यनेनैक्यरूपो विषयः सूचितः । निमीलतीत्य- नेनाविद्यानिवृत्तिरूपं प्रयोजनं निर्दिष्टम् । सान्द्रानन्द मित्यनेनानन्दावाप्तिलक्षणं प्रयोजनमुक्तम् । ननु 'आनन्दनिष्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्प- वुद्धिः । योऽपीतिहासादिवदाह साधुस्तस्मै नमः खादुपराङ्मुखाय ॥’ ‘धर्मार्थका- ममोक्षेषु वैलक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥' इति धर्मादीनां फलत्वे स्वसंवेद्यपरमानन्दस्वरूपो रसास्वाद एव दशरूपकाणां फलं, पुनरितिहासादिवद्धर्मार्थकाममोक्षव्युत्पादनमात्रं फलम् । अथ कथमुच्यते त्यादि । [ अज्ञानात्प्रपञ्चोत्पत्ति लोकदृष्टान्तेनाह - ] मध्याहार्कमरीचिकासु पय:- पूर इव । यथा मध्याह्ने सिकता दिप्रतिफलितेष्वर्ककिरणेषु पयःपूरज्ञानं जायते तथा ऽसत्यप्यानन्दादिरूपब्रह्मज्ञानात्प्रपञ्चजनिरित्यर्थः । एवं चेत्कथमनर्थनिवृत्तिरित्याशंक्य सदृष्टान्तमाह-——यत्तत्त्वं यस्य त्रैलोक्यस्य तात्त्विक स्वरूपं विदुषां ज्ञानिनां पुन-