पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् यत्तत्त्वं विदुषां निमीलति पुनः लग्भोगिभोगोपमं सान्द्रानन्दमुपासाहे तदमलं खात्मावबोधं महः ॥ १ ॥ ३ 'मासो विभक्यलोपश्च' इति वक्तव्यात्काव्यादावव्ययप्रयोगः काव्यस्य नित्यस्थितिं संपादयति । अह्नो मध्यं मध्यमो भागः । एकदेशिसमासः । 'संख्याविसाय - इत्यत्र सायग्रहृणालिङ्गात्सर्वैकदेशैरह्नः समासो जात इत्याह वृत्तिकारः । ‘अहो- ऽह्न एतेभ्यः' इत्यहादेशः । तत्र वर्तमानोऽको मध्याहार्कः । तस्य मरीचिका मरुभूमिप्रविष्टाः किरणाः । मरीचय एव मरीचिकाः | खार्थे कः । तासु । अत्र मरीचिकास्विति बहुवचनं वाहुल्याभिप्रायेण । अनेन मरुमरीचिकाभ्रान्तिपरम्प- राऽविच्छेदेन प्रचरतीति सूचितम् । पयःपूरस्तरङ्गितप्रवाहः यदज्ञानतः यस्य ब्रह्मणोऽधिष्ठानभूतस्याज्ञानतोऽपरिज्ञानात् । खं वायुर्ज्वलनो जलं क्षितिरिति । अपरार्ध स्पष्टम् । इतिशब्दः प्रकारवाचितया शब्दस्पर्शरूपरसगन्धादीनामहं कारादीनां चोपसंग्राहकः । एवंप्रकारेण त्रैलोक्यमुन्मीलति । स्फुरतीत्यर्थः । त्रयो लोकास्त्रैलोक्यम् । स्वार्थे प्यञ् । पिण्डाण्डं ब्रह्माण्डं चात्मन्यध्यस्तमवभासत इति वाक्यार्थः । यत्तत्त्वं विदुषामिति । यस्य ब्रह्मणस्तत्त्वमबाधितस्वरूपं विदुषां साक्षात्कुर्वताम् । 'न लोकाव्यय-' इत्यादिना कृद्योगलक्षणषष्ठीनिषेधात्तत्त्वमिति द्वितीया । पुनर्निमीलति लीनो भवति । पुनःशब्दस्त्वर्थः । विदुषां पुनरित्यन्वयः । यद्वा पुनःपुनरित्यर्थः । पुनः पुनमलतीत्यन्वयः । तदुक्तम् – 'तत्त्वज्ञानवतां चित्तं पुनः संसारवासनाः । आच्छादयन्ति मुञ्चन्ति पथि भानुं यथा घनाः ॥' उ- न्मीलनोदाहरणस्यौपाधिकभ्रमत्वेन ज्ञानमात्रनिवर्लखान्निमीलने ज्ञाननिवर्त्यमु- दाहरणान्तरमाह — स्रग्भोगिभोगोपममिति । खजि मालायां भोगिभोगः सर्प- कायः प्रतीयते स उपमा यस्य त्रैलोक्यं तत् । विधेयविशेषणमेतत् । निमी- लनक्रियाविशेषणं वा । रजसर्पादिभ्रान्तयो यस्य कस्यचित्पुरुषस्य यदा कदा- चिरकाले उत्पद्यन्ते । मरुमरीचिकाभ्रान्तिस्तु सर्वेषामाबालगोपालं युगपदेव मध्याह्नसमये सूर्ये प्रकाशमाने सति नियमेनैवोत्पद्यत इति । विद्वांसो जीवन्मु- कास्ते च विरलाः शुकवामदेवकृष्ण मिश्रादयः । अनेन षष्ठा 'अम्भःशीतकर' इत्यादिश्लोकार्थः सूचितः । प्रथमोदाहरणं संसारिविषयं, द्वितीयोदाहरणं मुक्त- विषयमिति विवेकः । अधिष्ठानरूपं तावदेवाह– सान्द्रानन्द मिति । आनन्दघन- मित्यर्थः । उपास्महे । उपासनं कुर्म इत्यर्थः । पूजायां बहुवचनम् । तदिति उपास्महे सेवयामः । कीदृशम् । सान्द्रो निविडो नित्यो य आनन्दस्तद्रूपन् । पुनः कीदृशम् । अमलमविद्यातत्कार्यदोषशून्यम् । खात्मावबोधं स्वप्रकाशम् । किं तत् । यदज्ञानतो यस्याज्ञानादिदं त्रैलोक्यमुन्मीलति प्रादुर्भवति । तदेवाह — खमि-