पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् दंष्ट्राचन्द्रकलाङ्कुरान्तरललजिह्वां महाभैरवीं पश्यन्त्या इव मे मनः कदलिकेवाद्याप्यहो वेपते ॥ १ ॥ मैत्री – (स्वगतम्) *अए, एसा मे पिअसही सद्धा असमु- म्भान्तहिअआकलिदकम्पतरलेहिं अहिं किंवि मन्तअन्ती संमुहा- गदंवि मं ण लक्खेदि । ता आलविस्सं दाव । (प्रकाशम्) पिअ- सहि सद्धे, किंति तुमं उक्कलिदहिअआ मंवि ण विलोएदि । श्रद्धा – ( विलोक्य सोच्छ्वासम्) अये, मे प्रियसखी मैत्री । ४] १३३

  • अये, एषा मे प्रियसखी श्रद्धा भयसमुद्भ्रान्तहृदयाकलितकम्पतर-

लैरङ्गैः किमपि मन्त्रयन्ती संमुखागतामपि मां न लक्षयति । तस्मादालपि- ष्यामि तावत् । प्रियसखि श्रद्धे, किमिति त्वमुत्कलितहृदया मामपि न विलोकयसि । एव चन्द्रकलाङ्कराचन्द्ररेखास्तदन्तरे ललन्ती खेलमाना जिह्वा यस्याः सा ताम् ॥ १ ॥ भयसमुद्भ्रान्तमिति । भयेन भीत्या समुङ्क्रान्तमनवस्थितम् । आक्रान्त- मिति यावत् । तच तद्धृदयं च तस्मिन्नाकलित उत्पन्नो यः कम्पस्तेन तरलानि चञ्चलानि तैरङ्गैरवयवैरुपलक्षिता किमपि मन्त्रयन्ती विचारयन्ती मुखागतां संमुख- मागतामपि मां न लक्ष्यति न पश्यति । भयाक्रान्तचित्तत्वेन पराक्तयेति भावः । अत्र किमिति न लक्षयसीत्यनेन, किमपि मन्त्रयन्तीत्यनेन च वितर्कप्रतीते रूपाख्यं यावहाम् । पुनः कीदृशीम् । नुः इमे नारे ते च ते कपाले च ते एव कुण्डले विद्येते यस्याः सा ताम् । पुनः कीदृशीन् । दृष्टिभिर्विधुच्छटां विद्युन्मालां मुञ्चन्तीम् । दृष्टिभिरिति बहुवचनं त्रिनेत्रत्वेन | पुनः कथंभूताम् । कचैविकराला मूर्तिर्यस्या- स्तान् । किंभूतैः कचैः । अनलोऽग्निस्तज्ज्वालावत्पिशङ्गाः कपिशास्तैः । पुनः कीदृ- शीम् | दंष्ट्रा एव चन्द्रकलाङ्कुरास्तदन्तरे मध्ये ललन्ती खेलन्ती जिल्हा यस्यास्ताम् ॥ १ ॥ [मैत्री—अये, एषा मे प्रियसखी श्रद्धा संभ्रमोद्भान्तहृदया कदलिका कम्पतर- लैरङ्गैः किमपि मत्रयन्ती संमुखागतामपि मां न प्रेक्षते । तत आलपिष्यामि तावत् । प्रियसखि श्रद्धे, किमिति त्वमुत्तापितहृदया मामपि न विलोकयसि |] श्रद्धा स्व- १ 'स्वगतं' इति मुद्रितपुस्तके नास्ति । २ 'भअसंभमुब्भन्तहिअआ —–कअलिआ- कम्पतरलेहिं—–—मंण पेक्खदि — उत्ताबिअहिअआ — विलोएसि' इति पाठः ।