पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १३१ भ्युदयः प्रमाणादवधार्यते कामं, तथापि सुहृदामनिष्टाशङ्किमानमित्यन्तो गर्भ- संधिः । तस्याङ्गानि द्वादश अंभूताहरणं, मार्गः, रूपं, उदाहरणम्, क्रमसंग्रहः, P अनुमानं, तोटकं, अधिकं वलं, उद्वेगः, संभवः, आक्षेपश्चेति । एतेषां लक्षण- मुदाहरणसमये वक्ष्यामः । तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयाम इत्यनेन कपटोपायप्रतिपादनात् अभूताहरणं गर्भसंधेः प्रथममङ्गम् । यथोक्तम्- 'यत्तूदाहरणं प्रायः कपटोपायकल्पनम्' इति ॥ २६ ॥ इति श्रीमद्राजाधिराजपरमेश्वरश्रीवीरप्रतापश्रीकृष्णरायमहाराजसा- म्राज्यधुरन्धरश्री साल्वतिम्मदण्डनायकभागिनेयनाण्डिल्लगो- पमन्त्रिशेखरविरचितायां प्रबोधचन्द्रोदयव्याख्यायां चन्द्रिकासमाख्यायां तृतीयोऽङ्कः ॥ ३ ॥ । इति भावः ॥ २६ ॥ असुव्ययेनापि प्राणनाशेनापि । व्यवसायमुद्योगम् ॥ इति प्रबो- धचन्द्रोदयव्याख्याने तृतीयोऽङ्कः समाप्तः ॥ ३ ॥