पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.१३० प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः हाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः । (इति निष्क्रान्ताः सर्वे ।) 123 शान्तिः– आवामप्येवं हताशानां व्यवसायं देव्यै विष्णु- भक्त्यै निवेदयावः । ( इति निष्क्रान्ते । ) इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥ 'संधौ सम्यग्व्यक्तस्य तत्रैव पुनर्नष्टस्य वीजस्यान्वेषणं गर्भसंधिः । अतश्चानिर्धा- • रितैकान्त्यफलप्राप्त्याशात्मको गर्भसंधिः । पताकाप्राप्त्याशयोः संबन्धादय उत्प- `द्यन्ते । ‘उपायापायशङ्काभ्यां प्रात्याशा प्राप्तिसंभवः' । अस्यार्थः । उपायस्य त दभावशङ्कायाचाभावान्निर्धारितैकान्त्यफलप्राप्तिः । प्राध्याशानाम पताकाव्यापिनी कथा । अयमर्थः । नाटकवस्तु द्विविधम् । प्रासकमाधिकारिकं चेति । वस्तु कथा इतिवृत्तमिति पर्यायाः । 'तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः' । प्रधानभूत माधिकारिकम् । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं प्रासङ्गिकं यथा सुग्रीवबिभीषणवृत्तान्त इति । अधिकारः फलं तत्खाम्यधिकारी तन्निवर्त्यमाधिका- रिकम् । तदुक्तम्–फलेन खामिसंबन्धोऽधिकारः, फलखामी चाधिकारी, तेन निर्व- र्लफलपर्यन्तं नियुज्यमानमितिवृत्तमाधिकारिकमित्यर्थः । प्रासङ्गिकं परार्थस्य खा- र्थोऽयं प्रसङ्गतः स्वैतिद्वृत्तस्य परप्रयोजनाननुषङ्गेण स्वप्रयोजनसिद्धिः । तदितिवृत्तं प्रासङ्गिकं प्रसङ्गनिर्वृत्तेः प्रासङ्गिकमिति । तदपि पताका प्रकरीति भेदाद्विवि- , धम् । तदुक्तं दशरूपके- 'सानुबन्धा पताका स्यात्प्रकरी च प्रदेशभाकू' । दूरं यदनुवर्तते सा पताका, सुश्रीवादिवृत्तान्तवत् । यदल्पं सा प्रकरी' मातलिवृत्ता- न्तवत् । अत्र विष्णुभक्तिर्विवेकस्य साहाय्यं कुर्वती सती स्वकार्य महामोनि- रासं कुणा प्रबोधोदयं करोतीति तद्वृत्तान्तः पताका | प्राजापत्या सरस्वती स्वकार्यमनुषङ्गतया सत्वदर्शनविजयं कुर्वाणा महामोहनिरासं कुर्वती प्रबोधोदये उपकरोतीति प्रकरी अल्पविषया । विष्णुभक्तिवृत्तान्तस्य प्रबोधोदयपर्यन्त- मनुवृत्तेः पताकात्वमिति भेदः । प्राप्तिसंभव इति । प्राप्तिः प्राध्याशा, संभव उ त्पत्तिस्थानं यस्य गर्भसंधेः प्राप्तिसंभवः । अयमर्थः । गर्भसंधिः पताकाप्रा- शासंभवत्पद्यते । कचित् पताकां विना प्राध्याशामात्रमवलम्ब्यैवोत्पद्यत इति पताकोपक्षेपकः कथ्यते । 'मूलं देवीसिद्धये विष्णुभक्ति' रित्यारभ्य यद्यप्य- - भूच्चेत्, तदा तद्विवेकस्य कृत्यं कार्य सिद्धं मन्ये । जातमित्येव मन्य इत्यर्थः । निष्कामं कर्मांनुतिष्ठतां सात्विकश्रद्धावतां विष्णुभयान्तःकरणशुद्धिद्वारा विवेकेन विद्योत्पद्यत