पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १२५ क्षपणक:– *अले कापालिअ, (बिगृदय) अहवा आचालिअ, आचालिअलाअ, कुलाचालिअ । भिक्षुः – (विहस्य) अयमनभ्यासातिशयपीतया मदिरया दूर- मुन्मनीकृतरत पखी । तत्क्रियतामस्य मदापनयनम् । - कापालिकः – एवं भवतु । (इति स्खमुखोच्छिष्टं ताम्बूलं क्षपणकाय ददाति ।) क्षपणक:– (स्वस्थीभूय) आचालिञ, एव्वं पुच्छिस्सम् । जादिसी तुह्माणं सुलाए आहलणसिद्धी किं तादिसी सिद्धी इत्थि- . आसु पुलिसेसु अत्थि । ३]

  • अरे कापालिक, अथवा आचार्य, आचार्यराज, कुलाचार्य ।

+ आचार्य, इदं पृच्छामि । यादृशी युष्माकं सुराया आहरणशक्तिः किं तादृशी शक्तिः स्त्रीपुरुषेष्वप्यस्ति । भौतिकादीनां नियन्ता भवति तदीशित्वम् । येनैश्वर्येणेन्द्रियादीनि वश्यानि भवन्ति तद्वशित्वम् । वश्याकर्षणेति । उच्चाटनप्राया उच्चाटनप्रभृतयः । प्रायः शब्देनो- त्सादनादयो गृह्यन्ते । प्राकृतसिद्धयः प्राकृतजनविषयाः प्राकृतान्राजादीनधि- कृत्य प्रवर्तन्ते । अतएव तुच्छास्ताः । किंच विदुषां विवेकिनां परमत्यर्थ योगान्त- राया भगवद्ध्यानविघ्नभूताः । वश्यादीनां मन्त्रौषधादिसाध्यत्वादणिमादिवन्नेश्वरा- नुग्रहसाध्यत्वमिति भावः ॥ २२ ॥ कापालिकेत्यादि । उन्मत्तप्रलापोऽयम् । अनभ्यासेत्यादि । अतिपीतयातिमात्रं पीतया दूरमत्यर्थमुन्मनीकृतः । उद्गतं मनो यस्योन्मनाः । अभूततद्भावे च्विः टिलोपः | उत्सितोऽभूदित्यर्थः । अत्यासन्नोऽतिनिकटश्चासौ महोदयश्च मोक्षस्तस्मिन् प्रणय: प्रीतिर्येषां तच्छीलास्तेषाम् । कीदृश्यः प्राकृतसिद्धयः । वश्यं च वशीकरणम्, आकर्ष आकर्षणं, मोहनं भ्रान्त्यु- त्पादनं, प्रशमनं सकलज्ञानभ्रंशः, प्रक्षोभणं प्रक्षोभः, उच्चाटनं स्थानअंशः, तत्प्राया- स्तत्प्रधाना इत्यर्थः ॥ २२ ॥ [क्षप – अरे कापालिक, अरे आचार्य, अथवा आचा र्यराज, कुलाचार्य |] अयमिति । सातिशयपीतया मंदिरया अयमनभ्यासस्तपस्वी दुरमुन्मनीकृत इति योजना | अतिभ्रान्तः संपादित इत्यर्थः । [क्षप-आ- चार्य, एवं पृच्छामि । यादृशी युष्माकं सुरायामाहरणसिद्धिः किं तादृशी स्त्रीपुरुषे १ 'अनभ्यास: सातिशय' इति पाठः | २ 'पुच्छामि - तादिसी इत्थिआपुलि सेसु' इति पाठः । १२