पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः क्षपणक:- (सरोमाश्चम् ।) * अहो अरिहन्त, अहो अरिहन्त, कापालिनीए पलससुहं । सुन्दलि, देहि देहि' पुणोवि अङ्कपालिम् । (स्वगतम्) अरे महन्तो क्खु इन्दिअविआलो उपस्थिदो । ता अस्थि कोवि उवाओ । किं एत्थ जुत्तम् । भोदु । पिच्छिआए ढंकिस्सम् । अयि पीणघणत्थणसोहणि पलितत्थकुलङ्गविलोअणि । १२० जइ लमंसि कावालिणीभावेहिं सावका किं कलिस्संदि ॥ १९ ॥ अहो कावालिअदंसवणं जेव्व इक्कं सौक्खमोक्खसाहणम् । भो कावालिअ, हग्गे तुहके सम्पदं दासो संवृत्तो मंपि महाभैरवानुशास- णे दिक्खय ।

  • अहो अर्हन् ! अहो अर्हन् ! कापालिन्याः स्पर्शसुखम् । सुन्दरि,

देहि देहि पुनरप्यङ्कपालीम् | अरे, महान्खल्विन्द्रियविकार उपस्थितः । तर्ह्यस्ति कोऽप्युपायः । किमत्र युक्तम् । भवतु पिच्छिकया छादयिष्यामि । अयि पीनघनस्तनशोभने परित्रस्त कुरङ्गविलोचने । यदि रमसे कपालिनीभावैः श्रावकाः किं करिष्यन्तीति । अहो कापालिकदर्शनमेबैकं सौख्यमोक्षसाधनम् । भो कापालिक, अहं तव सांप्रतं दासः संवृत्तः । मामपि महाभैरवानुशासने दीक्षय । न्त्रितः । भवतु पिच्छिकया छादयिष्यामि । लोकदृष्टीरिति शेषः ॥ अयीति | कपालिनीभावैः शृङ्गारचेष्टामिः । श्रावकाः किं करिष्यन्तीति । श्रावकाणां दृष्टिनिरोधाभावेऽपि तेषां नर्मसचिवत्वान्न लज्जितव्यमिति भावः ॥ १९ ॥ आलिङ्गनं स एव महानुत्सवः । [क्षप–अहो अर्हन् अर्हन्, कापालिनीस्पर्शसुखम् । सुन्दरि देहि तावत्पुनरङ्कपालीन् । अरे, महान्खल्विन्द्रियविकार उपस्थितः, ततो- ऽस्ति कोऽप्युपायः, किंमत्र युक्तं, भवतु, पिच्छिकया च्छादयिष्यामि |] अङ्कपालीमा लिङ्गनम् । अर्हन्निति । देवतागरणेन कापालिन्यालिङ्गनजन्यं सुखं भवान्वेद नान्य इत्यसूचि। पिच्छिका मयूरपिच्छनिर्मित: पिच्छगुच्छः । ॥ १९॥ [क्षप–अयि पीनधन- स्तनशोभना परित्रस्त कुरङ्गलोचना । यदि रमयसे कापालिनि भावकी तल्कि करिष्यति १ 'देहि दाव पुणो अङ्कपालीं—–महन्ते क्खु इन्दिअविआले उवत्थिदे' इति पाठः । २ 'जइ लअमसि कावालिणि भावकी ता किं कलिस्सदि सावकी' इति पाठः । ३ 'कावालिअ एकं दसणं सोक्खमोक्खसाहणं । भो आचलिअ, हग्गे तुज्झ किंकले संपदं संवृत्ते । मं वि महाभैलवाणुसासणे दिक्खस्सद्धणेण' इति पाठः ।