पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि कापालिनी- पीनोत्तुङ्गकुचावगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥ अहो पुण्यं कापालिकचरितमहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं धर्मः । भो महाभाग, सर्वथा बुद्धानुशासनमस्माभि- रुत्सृष्टम् । प्रविष्टाः स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं शिष्योऽहम् । प्रवेशय मां पारमेश्वरीं दीक्षाम् । - क्षपणकः - *अले भिक्खुअ, कावालिणी फलसदूसिदं तुमम् । ता दूलं अपसल । भिक्षुः – आः पाप, वञ्चितोऽसि रे कापालिन्या परिरम्भ- महोत्सवेन । - कापालिकः – प्रिये, क्षपणकं गृहाण । (कापालिनी क्षपणकमा- लिङ्गति । )

  • अरे भिक्षो, कापालिनीस्पर्शदूषितस्त्वम् । तद्दूरमपसर ।

विस्पष्टनीलोत्पलेत्यादि । एषा संवन्धच्छाया ॥ १७ ॥ बुद्धेभ्यः श तशः इति । सब्रह्मचारिबुद्धप्रतिपत्त्यर्थं चतुर्थीबहुवचनम् । यद्वा बुद्धेभ्यः इत्यत्र ल्यब्लोपे पञ्चमी । बुद्धानुद्दिश्य शपथं करोमि । सत्यं वदामीत्यर्थः । यदि पुनरिति कापालिकीकुचालिङ्गनजनितसुखतुल्यं सुखान्तरं यद्यस्ति तर्हि बुद्धेभ्यो यामीत्यर्थः ॥ १८ ॥ अहो इत्यारभ्य क्षपणक इत्यन्तं सुगमम् । आः पापे- लारम्य रोमाञ्च इत्यन्तं सुगमम् । अङ्कपालीं परिष्वङ्गम् । किमत्र युक्तम् । म पीवरयोर्मांसलयोः स्तनयोर्भरो भारः सः यस्यां क्रियायां यथा स्यात्तथा पीनपयोधराः पीनौ मांसलौ पयोधरौ स्तनौ यासांता: रण्डा भर्तृ हीनाः । निरन्तरसुरतहीना इत्यर्थः । एतेन सुखविशेषो ध्वनितः । कतिपयसंख्याका नो आलिङ्गिताः । किंतु बह्वच आलिङ्गिता एव । तावता किं तत्राह | शतशः शतवारं बुद्धेभ्यो गुरुभ्यः शपे गुरुश- पथं करोमि । कुन्नापि कचिदपि कापालिक्या: पीनौ मांसलाबुङ्गाबुचौ कुचौ तयोरव- गूहनमालिङ्गनं तस्माद्भव उत्पन्नः प्रमोदोदयः प्रकृष्टानन्दाविर्भावो यदि पुनः प्राप्त इत्यन्वयः । एतस्य सुखसंतानस्याल्पकालस्थायित्वादजातप्रायत्वात्पुनरेतादृशस्यानुत्पत्ते- मेहाजना वञ्चिता इति भावः ॥ १८ ॥ प्रवेशय देहि । पारमेश्वरीं परमेश्वरसंवन्धि- नीन् । [ क्षप – अरे भिक्षो, कापालिनीस्पशर्दूषितस्त्वम् । तद्दूरमपसर | ] परिरम्भ- १ 'फलसद् सिदे' इति पाठः ।