पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षु: - महाभाग, अश्रद्धेयमेतदवीतरागस्य मुक्तिरिति । क्षपणक: – *अले कावालिअ, जइ ण लुससि तदो भणामि । सलीली सलागी मुक्केति विलुद्धम् । ११७ - कापालिकः – (खगतम्) अये, अश्रद्धाक्षिप्तमनयोरन्तःकरणम् । भवत्वेवं तावत् । (प्रकाशम्) श्रद्धे, इतस्तावत् ।

  • अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी सरागी

मुक्त इति विरुद्धम् । पाषाणप्राया जीवस्य स्थितिरेव मुक्तिर्दुःखाभावरूपा कथं प्रार्थ्यते पामरैः । पा- वैया इति । पार्वत्या भवान्याः प्रतिरूपया प्रतिभटं रूपं यस्याः सा प्रतिरूपा तया । तत्सदृशयेत्यर्थः । दयितया प्रियतमया सानन्दं यथा भवति तथालिङ्गितः परिष्वक्तः सन् संसारदुःखान्मुक्तश्चन्द्रचूडस्य वपुरिव वपुर्यस्य सः । क्रीडति रमते । अनेन सारूप्यमुक्तिरुक्ता । एवं मृडानीपतिः परमेश्वर ऊचे उक्तवान् । अत एव कापालिकं तन्त्रं पारमेश्वरमिति व्यवहरन्ति वृद्धाः ॥ १६ ॥ कथमिति जितमिति भावे निष्ठा | दुरात्मान एव सर्वोत्कर्षेण वर्तन्ते । अहो, आश्चर्यमिति । अश्रद्धेयमिति । अवीतरागस्य मुक्तिरित्येतदश्रद्धेयम् । अविश्वसनीयमित्यर्थः । सखि, पश्य पश्य रजसः सुता श्रद्धा | ननु कापालिकस्य श्रद्धा कथं राजसी- त्युक्तं ग्रन्थकारेण । उच्यते । यद्यपि कापालिकस्त्वाचारेण तामसस्तथापि तस्य यथा स्यात्तथा पार्वत्याः प्रतिरूपया सदृशया दयितया कान्तयालिङ्गितो यः स मुक्तः क्रीडतीति सोमेश्वरोपासकानां सरूपा मुक्तिरित्यर्थः । सोमसिद्धान्त इति भावः । कथनीदृशं सुखं मोक्ष इत्यत आह । विषयैः ख्यादिभिर्विना सुखं कापि न दृष्टम् । आत्मरूपे सुखे मानाभावादिति भावः । ननु तर्हि दुःखनिवृत्तिरेव वैशेषिकादिसंमतां मुक्तिररित्वत्यत आह — आनन्देति । आनन्दः सुखं तस्य बोधोऽनुभवस्तेनोज्झिता रहिता जीवस्थितिरेव मुक्तिरुपलावस्था कथं प्रार्थ्यते कथमभिलष्यते । उपलावस्थावद- न्चेतनत्वेनापुरुषार्थत्वादिति भावः । ज्ञानित्वं परित्यज्य पाषाणपदवीप्रार्थनमत्याश्चर्य वैदिकत्वाभिमानिनाम् ॥ १६ ॥ अश्रद्धेयमनादरणीयम् । [क्षप - अरे कापालिक, यदि न रुष्यसि तदा भणामि, शरीरी सरागी मुक्त इति वेदविरुद्धम् |] अश्रद्धया क्षिप्तम् । व्याक्षिप्तमित्यर्थः । मिक्षुक्षपणकयोरात्मा परिच्छिन्नः । आवरणस्वभावा च श्रद्धां १ 'वेदविलम्' इति पाठः ।