पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः · क्षपणक:– (सभयम्) * महाभाअ, अहिंसापलंमो धम्मो थि । ( मिक्षोरङ्कं प्रविशति ) । भिक्षुः– (कापालिकं वारयन्) भो भो महाभाग, कौतुकप्रयु- क्तवाक्कलहेनायुक्तमेतस्मिंस्तपखिनि प्रहर्तुम् । कापालिकः– (खज्ञ प्रतिसंहरति । ) क्षपणकः – (समाश्वस्य ।)। महाभाओ जैदि संहलिदघोललो- सावेसो संवृत्तो तदो अहं किंवि पुच्छिदुमिच्छेमि । कापालिकः–पृच्छ । क्षपणकः—1 सुदो तुझाणं पलमो धम्मो । अध केलिसो सोक्खमोक्खो । कापालिकः – शृणु — दृष्टं क्वापि सुखं विना न विषयैरानन्दबोधोज्झिता जीवस्य स्थितिरेव मुक्तिरुपलावस्था कथं प्रार्थ्यते ।

  • महाभाग, अहिंसा परमो धर्मोऽस्ति ।

↑ महाभागो यदि संहृतघोररोषावेशः संवृत्तस्ततोऽहं किमपि प्रष्टु- मिच्छामि । + श्रुतो युष्माकं परमो धर्मः । अथ कीदृशः सौख्यमोक्षः । भूतवर्गः । तेन सह भर्गगृहिणीं घिनोमि प्रीणयामि ॥ १५ ॥ भिक्षोरङ्कं प्रवि- शतीत्यारभ्याश्वस्येत्यन्तं सुगमम् । श्रुतो युष्माकं परमो धर्मः । मस्तिष्केत्यादिना श्रुत इत्यर्थः । सौख्यमोक्षः सौख्यप्रधानो मोक्षः । दृष्टमिति । दृष्टा कापि विष- यैर्विना सुसं कापि न दृष्टम् । आनन्दवोधोज्झिता सुखविरहिता उपलावस्था दौघा येषु तैः ॥ १५ ॥ उद्यच्छति सकम्पं दर्शयति । [क्षप-महाभाग, अहिंसा परमो धर्मोऽस्ति ।] [क्षप–महाभागो यदि संहृतधोररोपावेशः संवृत्तः ततोऽहं कि- मपि पृच्छामि । प्रतिसंहरति पुनः कोशे प्रक्षिपति । [क्षप–श्रुतो युष्माकं परमो धर्मः, अथ कीदृशो मोक्ष:] इति धर्म पृष्ट्वा मोक्षं पृच्छति – अथेति । कीदृशं मो- क्षसौख्यमित्यर्थः । दृष्टं कापीति । मृडस्य पत्नी मृडान्युमा तस्याः पतिः सोम इ त्यूचे वदतिस्म । इतीति किम् । चन्द्रचूडं चन्द्रशेखरं वपुर्यस्य तादृशः सन् सानन्दं १ 'पलमे धम्मे त्थि' इति पाठः । २ 'जई – लोसावेसे संवुत्ते – पुच्छिदुमि- च्छामि' इति पाठः । ३ 'सुदे तुझाणं पलमे धम्मे । अथ केलिसे मोक्खे' इति पाठः ।