पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३]] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् आवासो लयनं मनोहरमभिप्रायानुरूपा वैणिङ्- नार्यो वाञ्छितकालमिष्टमशनं शय्या मृदुप्रस्तराः । श्रद्धापूर्वमुपासिता युवतिभिः क्लृप्ताङ्गदानोत्सव- क्रीडानन्द मरैर्वजन्ति विलसज्ज्योत्स्सोज्ज्वला रात्रयः ॥ ९ ॥ १०५. करुणा — *सहि, को एसो तरुणतालतलुप्पलम्बो लम्बन्त- -

  • सखि, क एष तरुणतालतरुप्रलम्बो लम्बमानकषायपिशङ्ग-

इत्यर्थः ॥ ८ ॥ बौद्धपक्षे जीवन्मुक्तिरेतादृशीत्युक्तं भवति । आवासो लय- नमिति । लयनं भूगृहारोपगृहं कुट्टिमगृहं मनोहरं मनःप्रीतिकरम् । विभ क्तिव्यत्ययेन क्लृप्तमित्यर्थः । अभिप्रायस्याशयस्यानुरूपा अनुकूला यथेच्छव्यव- हारानुकूला वणिङ्नार्यः श्रेणीवध्वः लृप्ता इत्यन्वयः । वाञ्छितकालं यथाक्षुदि- टमशनं मिष्टानं कॢप्तम् । शय्या मृदवः प्रस्तराः प्रच्छदपटा यासां ताः । श्रद्धापू- मिति । अत्र श्रद्धा नाम शाक्यमुनिमतविश्वासः । क्रियाविशेषणमेतत् । श्रद्धाप्रधानं यथा भवति तथा युवतिभिरारूड्यौवनाभिरुपासनासाधनभूताभि- रुपासना बुद्धदेवस्य सेवा तत्कर्तृका वा क्लृप्ता सिद्धा । अतश्च अङ्गदानोत्सव आलिङ्गनादिकं स एव क्रीडा तस्यामानन्दभरास्तैः करणभूतैर्ज्योत्लोज्ज्वला रात्रयो व्रजन्ति गच्छन्ति । अत्र बौद्ध मते बौद्धपरिव्राजकलिङ्गपूजां स्वपत्यनुमत्यैव कुर्वन्ति ते परिव्राजकास्तेषां मन्मथछत्राणि पूजयन्तीति तदागमक्रमः ॥ ९ ॥ तरुणतालवन्नवीनतालवृक्षवत्प्रलम्बः प्रांशुर्लम्बमानः कषायेण रजकद्रव्यविशेषेण गतधर्मे । — आवास इति । मनोहरमतिसुन्दरं लयनं गृहमावासो निवास- स्थानम् । अस्तीत्यध्याहारः । न तु क्लेशावहा गुहाः | अभिप्रायानुरूपा अभिलषि- तवेषानुकूला वणिग्भार्या वारविलासिन्यः सन्ति । न तु सवर्णां विवाहिताः । वाञ्छि- तकालमभिलषितसमय मिष्टमशनं भोजनमस्ति । न तु आह्निकानन्तरकाल एव । नृदुप्रस्तराः कोमलास्तरणयुक्ताः शय्याः सन्ति । न कन्थादि । विलसन्ती प्रकाश- माना ज्योखा चन्द्रप्रभा तयोज्ज्वला: शोभमाना रात्रयः । कृप्तः कृतोऽङ्गरा- गोऽङ्गे कुङ्कुमचन्दनादिलेपो यस्मिन्नेतादृशो य उत्सवः काममहोत्सवः सुरतादिरूपः सैव क्रीडा तस्यामानन्दभराः सुखसमूहास्तैर्वजन्ति । सुखेन गच्छन्तीत्यर्थः । कीदृश्यो रात्रयः । युवतिभिस्तरुणीभिः श्रद्धापूर्वमादरपूर्वमुपासिताः सेविताः । अनेनास्माकं भुक्तिमुक्ती सुखसाध्येऽन्येषामतिक्लेशसाध्ये इति भावः ॥ ९ ॥ [करुणा – सखि, क एष १ 'वणिग्भार्या : ' इति पाठः । २ 'कृप्ताङ्गरागोत्सव' इति पाठः ।