पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् (ततः प्रविशति भिक्षुरूपः पुस्तकहस्तो बुद्धागमः ।) भिक्षुः – (विचिन्ल) भो भो उपासकाः, सर्वेक्षणक्षयिण एव निरात्मकाश्च यत्रार्पिता बहिरिव प्रतिभान्ति भावाः । सैवाधुना विगलिताखिलवासनत्वा- द्धीसन्ततिः स्फुरति निर्विषयोपरागा ॥ ८ ॥ (परिक्रम्य पुनः सश्लाघम्) अहो, साधुरयं सौगतधर्मो यत्र सौख्यं मोक्षश्च । तथाहि — १०४ [तृतीयोऽङ्कः भवत्वित्यर्थः । सौगतेषु बौद्धेषु ॥ ततः प्रविशतीत्यादि सहसैवार्थसंपत्त्या प्रवेशः । स्वकीयमतनिरूपणपूर्वकखमतिसिद्धां मुक्तिमाह — सर्व इत्यादि । सर्वे भावाः क्षणक्षयिणः क्षणभङ्गुराः निरात्मका असन्त एव । प्रतिभासमानशरीरा इत्यर्थः । तत्कथं तेषां विषयत्वेन प्रतिभानं तत्राह – यत्रार्पिता इति । यत्र संविदि अर्पिता आरोपिताः । तदुक्तं धर्मकीर्तिना – 'स्वाभाविकमेव संविदः स्व- प्रकाशत्वं विषयास्तत्र विष्वक्प्रकाशन्त' इति । भाव्यन्ते संविदा स्वाभिन्नत्वेनेति भावा नीलादयो बहिरिव बाह्या इत्यर्थः । सैव धीसन्ततिरधुनेदानीं विगलिता- खिलवासनत्वाद्विनष्टाखिल विषयसन्ततित्वात् । अत एव निर्विषयोपरागा विष- योपरक्तिशून्या धीसन्ततिः सन्तन्यमाना धीः स्फुरति । स्खेनैव प्रकाशत - सैव लक्षणविशेषवेषत्व।दिति भावः ॥ ७ ॥ सौगतेषु बौद्धविशेषेषु । बुद्धागमो बुद्धशास्त्राभि- मानिदेवतारूपः । उपासका नास्तिकदर्शनविचारनिरताः ।— साक्षादिति धीसन्ततिः । अधुना इदानीं निर्गतो विषयोपरागो विषयसंबन्धो यस्याः नीलपीता- द्यनेकविधविषयोपप्लबशून्या स्फुरत्यनुपहता प्रकाशते । अत एवाहं सर्वज्ञोऽसीति मन्तव्यम् । कस्मात् । बिगलिताखिलवासनत्वा द्विशेषेण गलिता नष्टा अखिलाः स- मस्ता वासनाः संस्कारास्तेषां भावस्तत्त्वं तस्मात् संसारकारणीभूतवासनोच्छेदाद्वि- ज्ञानसन्ततिः समुल्लसतीत्यर्थः । सा का । यत्र यस्यां धीसन्ततावपिंता: संपादिता भावा घटादयो विषयाः बुद्धौ कल्पितत्वादन्तर्वतिनोऽपि वहिरिव बाह्या इव प्रतिभान्त्यभि ज्ञायन्ते । भ्रान्त्येत्यर्थः। साक्षान्नि:संदिग्धं । क्षणक्षयिणः स्वेतरकालनाशिनः । न केवलं क्षणिकाः । निरात्मकाश्च निरस्त आत्मा स्थितियेषां ते । इदं विशेषणद्वयं भावानामेव 1 अयमेव प्रामाणिको मार्गों भवद्भिरप्यनुसर्तव्य इति तात्पर्यम् ॥ ८ ॥ यस्मिन्सौ- १ 'साक्षात्क्षणक्षयिण' इति पाठः । -