पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७६ ) वैराग्यं च निर्गुणपुरुषख्यातेरेव उत्पद्यते ( २।११ ) | शून्यत्वानन्दमयत्व- सर्वज्ञत्वादयो दृश्यधर्माः, न ते द्रष्टुः निर्गुणस्य औपनिषद पुरुषस्य लक्षणानि ( २ | ११ ) । न हि स्वप्रकाशद्रष्टुरुपदर्शनं विना आत्मभावः प्रवर्तेत ( २ | १५ ) । अहं सुखी अहं दुःखीत्यात्मबुद्धेरपि यो द्रष्टा स भोक्ता (२।१८) । पुरुषार्थता बुद्धिमेद एव, बुद्धिस्तु गुणपुरुषसंयोगजाता, अतो न पुरुषार्थता गुणकारणम् ( २।१६) । अस्मीति बोधस्य उत्तरक्षणे मामहं जानामीत्यात्मको यः प्रतिबोधस्तस्य हेतुभूतः पूर्णः स्वबोध एव प्रतिसंवेदिशब्देन लक्ष्यते ( २ | २० ) । एवमन्येष्वपि पादेषु दृश्यते । एभ्यो व्याख्यानेभ्योऽन्यद् व्याख्यान्तरमासीद् नवेति अन्वेष्यम् । विवरण- टीकातः प्रतीयते यदन्यदपि व्याख्यानमस्य भाष्यस्यासीदिति । मिश्र-मिक्षु- परम्परातो भिन्ना खलु विवरणपरम्परेति न विस्मरणीयम् । 'किताब पातञ्जल- ' नामधेयं कमपि ग्रन्थम् अलबेरुणिर्नाम बुधः सस्मार ( १०३० ई० ), अतो जात्यन्तरसंचारीदं दर्शनमभूदिति विज्ञायते ।