पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६७ ) तत्त्ववैशारदीधृतमत-सम्प्रदायाञ्च' – टीकायामिमे संप्रदाया दृष्टयश्चो पन्यस्ताः –वैनाशिकः - ४|१४; ४|१६; ४/२०; ४२१; प्रावादुकाः- ४।१६; विज्ञानवादी -४।१४; स्वमतम् – ४|१०; नास्तिकः -४।१०। भाष्यगतापरेत्यादि-शब्द-व्याख्यानेऽपि वाचस्पतिना आचार्यनामानि सम्प्रदायनामानि च निर्दिष्टानि, यथा- अपरे-वैशेषिकाः ( ३।५३ ); भाष्ये यद्यपि पञ्चशिखसूत्रोदाहरणप्रसंगे पञ्चशिखनाम नोक्तं, तथापि वाचस्पतिः कण्ठतो. नाम सस्मार ( १ | ३; १ | २५; १ | ३६; २५, २६; २ | १३; २/१५; २।१७ २१८ २२०; ३४१, ४२२ ); यस्य तु = वैनाशिकमतम् ( १ | ३२ ); अपर आह= एकान्तवादिनं बौद्धमुत्थापयति ( ३ | १३ ); केचित् = वैनाशिका बाह्यार्थवादिनः (४।२३ ); अपरे = विज्ञानमात्रवादिनः ( ४ | २३ ); शास्त्रानुशासनम् = षष्टितन्त्रशास्त्रस्यानुशिष्टिः ( ३।१३ ) । विशिष्टानि व्याख्यानस्थलानि – दिङ्म[त्रमुदाह्रियते - योगसूत्रे ( ३ | ३२ ) मूर्धपदमस्ति । अत्र मूर्धपदेन सुषुम्नानाम्नी नाडी लक्ष्यत इति मिश्रः । अपरमपि । किमर्थं पुनः २।६ सूत्रे शक्तिपदग्रहणं यतो हि द्रष्टदृश्ये एव मूलभूतौ पदार्थों इत्यत्राह मिश्रः – “हग्दर्शनयोरिति वक्तव्ये तयोर्भोक्तृभोग्ययोर्योग्यतालक्षणं संबन्धं द्योतयितुं शक्तिग्रहणमिति | १ | १७ टीकायां सास्मितसमाधिविषये वाचस्पतिव्याख्यानमेव सम्यगिति प्रतीयते । अत्र भोजव्याख्यानं भिक्षुण्या- ख्यानं वा न सर्वथा समीचीनमिति विज्ञेयम् । क्वचित् पुनः मिश्रव्याख्यानं सांशयिकं प्रतिभाति । १।३२ सूत्रव्याख्यान एकतत्त्वशब्देन 'ईश्वर' एव ग्राह्य इति मिश्रः, दृष्टिरियं न समीचीना, यद्यत्रेश्वर एव विवक्षितः स्यात् तर्हि सूत्रकृतेश्वरपदमेव प्रयुक्तं स्यादिति । तथैव १ । २१ सूत्रव्याख्याने संवेगस्यार्थो वैराग्यमिति मिश्र उवाच, नेदं युक्तं प्रतिभाति । १।४४ व्याख्यायां निमित्तपदस्य यद् व्याख्यानं कृतं, तत्तु आंशिकमेवेति गम्यते । निर्माणचित्तप्रसङ्गे ( ४/५ ) 'एकस्तु प्रभुशक्त्ये' त्यादयो ये श्लोका उद्घृतास्ते योगसिद्धे मानवे प्रयोज्या इति दृष्टिर्न न्यायेन संगच्छते, मिश्रस्तु योगसिद्धमभिलक्ष्य श्लोका उद्धृतवान् इति दृश्यते । तत्त्व वैशारदीगतानि कानिचन विशिष्टानि स्थलानि-तत्त्ववैशारद्यां क्वचिद् विशिष्टो विचार उपलभ्यते सांख्ययोगविद्यादृशा, शास्त्रान्तरदृशा च । सुखग्रहणाय कानिचन स्थलानीह संगृह्यन्ते- १. पुराण-श्रुति-स्मृति-वचनानि तत्ववैशारद्यां बहूनि संगृहीतानि; निष्प्रयोजन त्वात् न तेषां नामानीह संगूयन्ते ।