पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ नमः परमर्षये सम्पादकीया निवेदना अथेइ स्मारं स्मारं गुरोगिंरो यथाबुद्धि सम्पादितं पातञ्जलयोगदर्शनम् । वंगाक्षरमुद्रितानि देवनागराक्षरमुद्रितानि च प्रायेण सर्वाणि योगदर्शन संस्करणानि व्यवहृतान्यस्माभिः । तत्त्ववैशारदीपाठश्च यत्नतः संशोधितः, विरामचिह्नानि च सर्वत्र स्थापितानि । यत्र च 'इत्युक्तं प्राग्' इत्येतादृशं वाक्यं मिश्रेणोक्तं, तत्र पूर्वसन्दर्भस्य निर्देशोऽपि कृतः । उद्धृतानां वचसामाकरस्थलानि प्रायेण सर्वत्र निर्दिष्टानि । भाष्य-तत्त्ववैशारदीगत-वचनाकर निर्देशविषये भूमिकायां विचारितम् । यत्र त्वाकरश्लोके भूयान् पाठभेदोऽवलोक्यते, तत्र 'तुल०' ( तुलना कार्या) इति शब्दो व्यवहृतः । भाष्यटीकाधृत-पुराणादिश्लोकानुपूर्वी मुद्रितपुराणादिषु सर्वत्र न समानोपलभ्यते - इति विज्ञेयम् । या चातिविशदा अनुक्रमणीह संयुक्ता, साऽत्युपकारिणी भवेदित्याशास्महे वयम् । पातञ्जलयोगविषये यदस्माकं वक्तव्यम्, तत् सर्वं युक्तितो भूमिकायां विवृतम् । भूमिकेयं समासतः प्रणीता, ग्रन्थान्तरे भूमिकोक्ता विषया विशदीकरिष्यन्ते । १. भूमिकायां बहवो विषया न विशदीकृताः । ते च मत्प्रणीतेषु ग्रन्थान्तरेषु द्रष्टव्याः । अप्रकाशिताश्चेमे ग्रन्थाः – १ सांख्ययोगीयम् [ श्लोकमयो ग्रन्थः, सांख्य योगीयाः पदार्था युक्तितः प्रतिपादिताः ], २-भक्तिकौस्तुभः [ श्लोकमयो ग्रन्थः, अकृत्रिमार्षी भक्तिरत्र प्रतिपादिता ], ३ - सांख्यविद्या [ हिन्दीभाषामया निबन्धा भूततन्मात्रादिषिवेचनपरा इह संकलिता: ], ४ -योगविद्या [ कमँ-चित्त-संस्कार- योगाङ्गादिपरायणा हिन्दीभाषामया निबन्धा अत्र संकलिताः ], ५ - काललुप्ता सांख्ययोगविद्या [ पञ्चशिखहारीतदेवलाद्युक्तानां दर्शनेतिहासपुराणस्मृतिनिबन्ध- ग्रन्थादिदर्शितानां सांख्ययोगप्रतिपादकवचनानां संकलनं व्याख्या च ], ६ - सांख्य कारिका का प्रसंख्यान भाष्य [ सांख्यकारिकोक्तयुक्तीनां मौलिकी व्याख्या, सांख्यमतदूषणपरिहारव], ७ — Dharana-Sutram ( Sutras in Sanskrit with a Commentary in English; वेदान्तसांख्य- म्यायादीनां बौद्धजैनादीनां शाक्तथैवादीनां च धारणालक्षणादोनि संकलितानि ) ।