पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५४ ) नाभ्युपगतम्, न वा रामानुजमध्वादिमिरस्य वचनानि क्वापि स्मृतानि, अतो गम्यते यदिदं भाष्यं व्यासप्रणीतम् इति प्रसिद्धिः दार्शनिकसंप्रदायेषु नासीदिति । अपि च – कृष्णद्वैपायनतः प्रागू बहवो व्यासा बभूवुरिति पुराणेषु दृश्यते', परन्तु ततः पश्चादपि व्यासपदवीभाजां सत्ता कलिकाले भविष्यतीति न क्वापि कथितम् । अर्वाचीने काले 'व्यास' पदस्य 'पुराणवाचकः, पुराणकथकः' इत्येवार्थो जातः१, नेदं पदं दर्शनविद्याचुञ्चषु प्रयुज्यते इति व्यक्तमेव । किञ्च – 'बौद्धयुगे यदि कश्चिद् योगिप्रवरो व्यास आसीद्' इति बलादभ्यु- पेयते, तर्हि सर्वजनप्रसिद्धस्यास्य नामादिकं सर्व कथं परम्परायां न स्मृतम् इति जायते विचारणा । कथं वा व्यासैकशरणे शंकरमध्वादिसंप्रदाये भाष्यमिदं न प्रमाणत्वेनाभ्युपगतम् ? अपि च - बौद्धयुगस्थितेन 'व्यासेन' कथं पञ्चशिखवचांसि तद्ग्रन्थ उद्घृतानीति चिन्तनीयं सर्वैः । जनदेवजनककालिकः खलु पञ्चशिखः, तस्य च ग्रन्थो बहो: कालात् पूर्व लुप्तो जातः । कथं च तद्ग्रन्थं दृष्ट्वा बौद्ध- कालिको व्यासो भुयांसि तद्वचांस्युद्धृतवानिति ? व्यासभाष्यगतव्यासशब्दार्थः- पूर्वोक्तदोषनिराकरणार्थमस्माभिश्चिन्त्यते यत् सूत्रकृता पतञ्जलिना स्वयमेव किमपि व्याख्यानं कृतं सूत्राणाम् । इयं शैली प्राचीनकाले बहुधा दृष्टा । केनापि तत्कालभवेन तदन्तेवासिनाऽपि वा इदं कृतं स्यात् । अस्मिन्नेव व्याख्याने तत्प्राग्भवपञ्चशिखवचांस्यपि संकलितानि । प्राचीनतमाः श्रुतयश्चाप्यत्र संगृहीताः । इदं समासभाष्यम् इति कथयितुं शक्यते, संक्षिप्तत्वात् ( नास्य व्याख्यानस्य किमपि विशिष्टं नामासीदिति ) । गच्छति काले संप्रदायप्राप्तं तदेव पूर्णमपूर्ण वा व्याख्यानमादाय तत्- प्रचारेच्छया (स्वकालोत्पन्न दुष्टमतखण्डनेन सह ) केनापि योगिनेदं भाष्यं रचितम् ( बौद्धकाले इदं विरचनमभूदिति निश्चीयते ) । इदं च विस्तृतमिति कृत्वा (पूर्वव्याख्यानादस्य पृथक्त्वं द्योतयितुं च ) अस्य व्यासभाष्यम् इति नाम प्रचलितम् । अस्मद्देशे प्राचनानां विदुषां प्रायेणैतिहासिकदृष्टयभावाद् - १- ब्रह्म। एड० १।३५, लिङ्ग० ११७ अ०, विष्णु० ३।३ अ० । २ – 'विस्पष्टमद्भुतं शान्तं स्पष्टाक्षरपदं तथा कलस्वरसमायुक्तं रसभाष- समन्वितम्......... य एवं वाचयेद् विद्वान् स विप्रो ब्यास उच्यते' ( तत्त्वसन्दर्भ-- राधामोहिनीटीका, पृ० १६ घृतं वाक्यम् ) ।