पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५० ) भावेन वृत्तम् ...... इत्यादिका काचित् कारिकाऽप्युद्धृता । अर्वाकालि- कोऽयं ग्रन्थकारः । नारायणतीर्थंकृत-योगचन्द्रिकाव्याख्या - व्याख्येयं मुद्रिता । इयं विशदा विस्तृता च । अत एव ग्रन्थकृता 'सूत्रार्थबोधिनी' ति नाम्नी काचिदपरा व्याख्यापि निरमाथि, सापि चन्द्रिकया सहैव प्रकाशिता । नारायणतीर्थः खलु नैकग्रन्थप्रणेता । इमे एतत्कृता ग्रन्थाः- ( क ) सिद्धान्तबिन्दु ग्रन्थस्य लघुव्याख्या । ( ख ) सांखाकारिकायाश्चन्द्रिकाटीका । (ग) न्याय-कुसुमाञ्जलि-टीका । (घ) ब्रह्मसूत्रस्य विभावना-टीका । (ङ) भाषापरिच्छेद ग्रन्थस्यापि एतद्विरचिता टीकाऽस्तीति कथ्यते । अस्य समयः खलु १७१८ विक्रम संवदित्यैतिहासिकाः । श्रीरामगोविन्द- तीर्थोऽस्य गुरुर्यथाह नारायणः सांख्यकारिकाटीकारम्भे- “श्रीरामगोविन्दसुतीर्थपादकृपाविशेषादुरलभ्य श्रीवासुदेवादधिगत्य सर्वशास्त्राणि वक्तुं किमपि हा नः ॥” इति । अस्यान्तेवासी काश्मीरकः सदानन्दो योऽद्वैतब्रह्मसिद्धि ग्रन्थं रचयामास । नारायणनीर्थस्य वाक्यं हठयोगप्रदीपिकाटीकाया मुद्धृतं वर्तते (१।४ ) । बोधम् । सांख्यकारिकाव्याख्यायामनेन एका विशिष्टा सूचना प्रदत्ता | सांख्यीय- षष्टिपदार्थगणनापराः केचिच् श्लोका अनेन उद्धृताः, यत्र पदार्थगणना- अभिनवरीत्या कृता । प्रचलिता गणनारीतिः ( द्र० तत्त्वकौमुदी ७२ घृतं राजवार्तिकम ) खल्त्रन्यैव २, यद्यपि उभयोरर्थसाम्यमप्यस्ति । १ १. पुरुषः प्रकृतिर्बुद्धिरहङ्कारो गुणास्त्रयः । तन्मात्रमिन्द्रियं भूतं मौलिकार्थाः स्मृता दश ॥ विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः । मतम् ॥ - करणानामसामर्थ्य मष्ट विशतिधा इति षष्टिः पदार्थानाम् अष्टाभिः सह सिद्धिभिः । ( ७२ कारिकाटोका ) २. प्रधानास्तित्व मेकत्वमर्थवत्त्वम अथान्यता । पाराय्यं च तथानैक्यं वियोगो योग एव च । शेषवृत्तिरकतुं त्वं मौलिकार्थाः स्मृता दश । विपर्ययः पञ्चविधस्तथोक्ता नव तुष्टयः || करणानामसामर्थ्यमष्टा विशतिधा स्मृतम् । इति षष्टिः पदार्थानामष्टाभिः सह सिद्धिभिः ॥