पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६ ) मन्त्रयोगो लयश्चैव राजयोगो इंठस्तथा । योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ मेदोऽयं योगाङ्गाभ्यास-प्रवणता भेदादिति प्रतीयते । अत एव केचन शरीरशुद्धिबद्धादराः, अपरेच जपादिबद्धदृष्टय इति । एषां योगानां विवरणं योगविद्येतिहास-ग्रन्थे दास्यत इति तत एव विशेषो विज्ञेयः । तत्त्वदर्शनभेदादपि योगसंप्रदायभेदो भवति- इत्यभ्युपेयमेव । शैवाः, वीरशैवाः, पाशुपताः, नकुलीशपाशुपताः, प्रत्यभिज्ञा दर्शन स्थिताः, भागवताः, पाञ्चरात्राश्च सर्वे योगविद्यांश विशेषे एव विराजन्ते - इत्यत्र न संशयलेशोऽपि; परन्तु तत्त्व-दर्शने क्वचि देतेषां विपर्यस्ता दृष्टिरुपलभ्यते । एते खलु क्रियायोग- परायणा ईश्वरप्रणिधानरूपे योगाङ्गे बद्धादराः प्राणायामाद्यभ्यासशीला ध्यानविशेषं भावयन्तश्च यथाशक्ति सिद्धिं लभन्ते, परन्तु सम्यग्दर्शनाभावान्न गुणातीतं पदमधिगच्छन्ति, अतिसूक्ष्मरूपेण अविद्या बीजदेहात्माध्यासौ चैतेषु साधकेषु विद्येते ।" सांख्ययोगप्रभवाश्चान्या लौकिक्यो विद्याः- यद्यपि त्रिगुण-सत्कार्यवाद- विवेकख्यात्यादयोऽध्यात्महशैवात्र शास्त्रे उपन्यस्ताः, तथापि लौकिक्या दृष्ट्या- ऽपि सांखयोगविद्या उपयोगिनी भवति । तथाहि- ( १ ) यदिह वैद्यकशास्त्रे वात-पित्त-कफरूप-त्रिदोषविचार आस्ते, सच त्रिगुणमूलक इति निश्चप्रचम् । औषधप्रयोगश्च गुणवैषम्यनियमानुसारेण यदि स्यात्, तर्हि सम्यक् फलजनकश्च स्यादिति । अत एव चरके सुश्रुते च सांख्य- ज्ञानप्रसङ्गो विद्यते । स च प्रसङ्गो वैद्यकदृष्ट्येति विज्ञेयम् । ( २ ) योगशास्त्रे या षट्चक्रचिन्ता वर्तते, स्थूलदृशाऽपि यदि तदुपयोगः कृत: स्यात् तर्हि शारीरस्वास्थ्यवृद्धिः स्यादिति अस्माकं प्रत्यक्षम् । आसन- मुद्रादयः शरीरबलस्थैर्यविधायका अपि योगविद्यांशभूता एव । तस्य सम्यग्ज्ञानं तु कायव्यूहज्ञानतः स्यादेव। ( ३ ) तथैव चित्तसंबन्धिरोगजातमपि योगविद्यागतसिद्धान्त प्रयोगैरपाकर- णीयं भवति । इदानीन्तना मनोविज्ञानविदः (Psychologist ) यदि योगशास्त्रीयाणि मतानि मनोविषयीणि विज्ञाय मनश्चिकित्सां विदध्युस्तर्हि ते साफल्यभाजो भवेयुरिति । प्रचलितमनोविद्याशास्त्रगताः 'अनिर्ज्ञातमनः-अस्वा- भाविकमनः- दूरदर्शन-स्पर्शनविषयकाः' सिद्धान्ता अपि योगशास्त्रान्तर्गता एव । १–शैवादिदर्शनेषु आन्वीक्षिकीदृष्ट्या ये दोषा वर्त्तन्ते, तेषां विवरणम् अस्माभिः 'योगविद्या' नामधेये ग्रन्थे कृतमिति तत एवावधार्यास्ते दोषाः ।