पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 24 )) ५- तामसराजनीत्यनुसारेण जीवनयापनपद्धतेर्नियमनम्, अत एव स्थैर्या- धायकसत्त्वगुणान्विताया मनोवृत्तेर्हासः । ६ – तत्त्वोपलब्धिकारिणामत्यल्पता, ततश्च विशेषप्रत्यक्षीकरणजातप्रज्ञा- वैशद्यस्यादर्शनम्, ततश्च योगाभ्यासेच्छाह्रासः । ७— अयोगिकर्तृकं कृत्रिमागमप्रणयनम्, ततश्च मोक्षविद्या सर्वतोभावेन आकुलीकृता सम्प्रदायान्धदृष्टिभिः । ८ – निन्दा प्रशंसामूलकशास्त्रवचनानुसारेण आत्मविद्यासिद्धान्त-स्थिरी- करणम्, शब्दप्रमाणजनितं ज्ञानमेव तत्त्वविषयकं चरमं ज्ञानमिति धारणाया उद्भवश्च । अत्रेदं विज्ञेयं यद् - आत्मज्ञानं न खलु व्यावहारिक-बाह्य-जीवनाद् असंबद्धम् ; अत एव आत्मज्ञानाभ्यासिनां कृते व्यावहारिकजोवनस्य शुद्धि- रप्यावश्यकी। सेयं शुद्धिर्ऋषिभिरध्यात्मचिन्तामाश्रित्य उत्सर्गापवादनियमेन धर्मसूत्रादिषु प्रोक्ता । आत्मविज्ञानसहभूरेव सदाचारः । अर्थशिक्षाजीविकादि- शुद्धिम् अन्तरेण न चित्तशुद्धिर्भवतीति कृत्वा श्रौतेन आत्मज्ञानेन सह बाह्यशुद्धिरपि उपदिष्टा ऋषिभिः । अत एवात्मज्ञानप्रदर्शनकृदृषिः चित्तशुद्धि- हेतुकसदाचारयुक्तजीविकादि-व्यवस्थानुशासनानि अभ्युपगम्यैव शास्त्रा- नुशासनं करोति — इति दृश्यते । येषु दार्शनिक प्रस्थानेषु बाह्यशुद्धि- विषयकं विधिनिषेधजातं राष्ट्रसमाज-वर्णाश्रमादिव्यवस्थाहेतुभूतं नास्ति, तेषु अध्यात्मज्ञानविपर्ययोऽप्यस्ति इति स्वीकरणीयम् अत एव मन्वादिभिः आत्मज्ञानोपदेशात् प्रागू बाह्यशुद्धिकारिणी व्यवस्था बहुलमुपदिष्टा । आगम- तन्त्रादिषु बौद्धादिशास्त्रेषु च बाह्यश्शुद्धिविषयकानुशासनाभावात् तानि खलु तन्त्रादीनि 'अपूर्णानि असाधकानि च शास्त्राणि, इति मन्तव्यम् । असंकीर्णात्मज्ञानवित् पञ्चशिखः यदा सांखपसूत्रं प्रणिनाय, तदा राज्यादि व्यवस्थापि अध्यात्मज्ञानमूलिकासीदिति विज्ञायते । साद्यत्वे न तथा, अतो- इन्धविश्वासमूलं न्यायहीनं ज्ञानमेवाद्य मोक्षविद्यारूपेण प्रचलति । 3 अनुरागाधिक्य विशेषतो योगभेदानामुत्पत्तिः– विचित्राः खलु साधकानां रुचयः। यथा खलु केचिज ज्ञाननिष्ठाः, केचिच्च कर्मनिष्ठाः संस्कारभेदतः, तथैव अध्यवसायमेदेन धर्मज्ञान-वैराग्यैश्वर्याणामन्यतमेष्वभिरताः सन्तो योगिनः केवल्यार्थे यतमाना दृश्यन्ते । तत्र धर्माद्यनुसारेण चतुष्टयी गतिरपि शास्त्रे प्रसिद्धा, एवं योगाङ्गाभ्यासेऽपि योगङ्गानामन्यतमेऽङ्गेऽनुरागाधिक्याद् बहवो योगभेदा जाताः । यद्यपीमे मेदा असंख्येया इति स्वीकार्यमेव, तथापि बाह्यरूपेण चतुर्धेति परम्परासु प्रसिद्धिरस्ति । यथोक्तम्- C