पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रभाष्यानुक्रमणी अस्यां सूचौ योगसूत्रभाष्यगतानि सर्वाणि विशिष्टानि पदानि संकलितानि वर्णानुक्रमेण, सूत्रभाष्यगताः सर्वे विषया अवान्तरविषयाश्चापि संकलिता यथासंभवम् । वक्रमविषय इदं ज्ञातव्यं यद् अनुस्वारविसर्गों अव्यवहितपूर्वस्वरान्तगतौ इत्यभ्युपेतमस्भाभिः। दृष्टिरियं व्याकरणानुगृहोतेति दृश्यते । आदौ अघटिताः ततवानुस्वार विसर्गंघटिताः शब्दांशाः स्थापिता अत्र । अनया रीत्या हसेतिशब्दानन्तर- मेव हंसेतिशब्द इह द्रष्टव्यः सन्ति च शंकरादयः अनुस्वारघटिताः शब्दाः, ये पञ्चमवर्ण- घटिता अपि साधवः । प्रायेणैतादृशाः शब्दा अनुस्वारघटिता इहोपात्ताः । गङ्गापरम्परा- दिशब्दाः खलु सर्वथा पञ्चमवर्णघटिता एव । अस्यां सूचौ तत्त्ववैशारदीगता विशिष्टा विषया न संकलिताः, ते च यथास्थानं द्रष्टव्याः । यत्र बहून्याकरस्थलानि निर्दिष्टानि, तत्र अध्यायसूत्र संख्यापौर्वापर्यंक्रमो न सर्वत्र आस्थितः । विशेषदशिभिः सर्वाणि आकरस्थलानि द्रष्टव्यानि । निर्दिष्टाकरस्थलेषु क्वचिद् गौणरूपेणापि विषयस्य विवेचनं कृतमिति विज्ञेयम् । सूच्या ये शब्दा उपात्ताः, ते क्वचिल्लक्षितशब्दानामंशभूता एव । यथा 'अन्यताप्र यये 'ति शब्देन अन्यताप्रत्ययमात्राधिकारशब्दोऽत्र लक्षितः, तथैव अप्रसवशब्देन अप्रसवसमर्थानीति पदं लक्षितम् । क्वचिच नञ्घटितशब्देषु नवं परित्यज्य मूलभूताः शब्दा एवेह संकलिताः, यथा इह सूच्याम् आभोगपदं वर्तते ( १११५ ), योगभाष्ये पुमरनाभोग इति । योगभाष्य-व्याख्यानग्रन्थेषु क्वचित् सूत्रस्य भाष्यस्य च पाठभेदो दृष्टः । यथा सुखानुशयोत्यत्र सुखानुजन्मेति योगभाष्यविवरणे ( २१७ ) दृश्यते । अत्र तत्व- वैशारदीसंमतः सूत्रभाष्यपाठ एव गृहीतः । अर्थंबोधसौकर्यार्थं क्वचित् संकलितशब्दानन्तरं विशिष्टं नामादि प्रदत्तम् । तच् कोष्ठके लिखितम् । मतानामुल्लेखस्तु व्याख्यानु सारेगौव कृतः न पुनः स्वमनीषिकया । बादौ मूलभूतपदानि तदनन्तरं च समस्तपदानीत्येव क्रम आस्थितः, यथा 'इन्द्रियम्' इति पदानन्तरमेव इन्द्रियजय इति पदमिह उपात्तम्, (वक्रमदृष्टया तु 'इन्द्रियम्' इति पदम् 'इन्द्रियजय' इति पदानन्तरमेव स्यात्, तदिह न स्वीकृतम् ) ।