पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. सू. ३४ ] पातञ्जलयोगसूत्रम् गुणानां तत्कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धि सस्वानभिसम्बन्धात्पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥ ३४ ॥ इति श्रीपातञ्जले सांख्य प्रवचने योगशास्त्रे व्यासभाष्ये कैवल्यपादश्चतुर्थः॥ ४॥ 14४ कार्यकारणात्मकानां प्रतिसर्गस्तत्कैवल्यम्, यं कञ्चित्पुरुषं प्रति प्रधानस्य मोक्षः। स्वरूपप्रतिष्ठा वा पुरुषस्य मोक्ष इत्याह – स्वरूपेति । अस्ति हि महाप्रलयेऽपि स्वरूप प्रतिष्ठा चितिशक्तिः । न चासौ मोक्ष इत्यत आह -! - पुनरिति । सौत्र इतिशब्दः शास्त्र परिसमाप्तौ ॥ ३४ ॥ मुक्त्यर्हचित्तं परलोकमेयशसिद्धयो धर्मघनः समाधिः । द्वयी च मुक्ति प्रतिपादितास्मिन्पादे प्रसङ्गादपि चान्यदुक्तम् ॥ १ ॥ निदानं तापानामुदितमथ तापाश्च कथिताः सहाङ्गैरष्टाभिर्विहितमिह योगद्वयमपि । कृतो मुक्तेरवा गुणपुरुषमेदः स्फुटतरो विविक्तं केवल्यं परिगलिततापा चितिरसो ॥ २ ॥ इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां तस्ववैशारद्यां कैवल्यपादश्चतुर्थः ॥ ४ ॥ समाप्तमिदं पातञ्जलयोगदर्शनं सटीकभाष्ययुतम् ॥