पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुंतभ्यासभाष्यसमेतम् [पा. ४ सू. १७ भागास्ते चास्य न स्युरेवं नास्ति पृष्ठमित्युदरमपि न गृह्येत । तस्मात्स्वत- न्त्रोऽर्थः सर्वपुरुषसाधारणः, स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः संबन्धादुपलब्धिः पुरुषस्य भोग इति । १६ ।। १७१ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७ ॥ अयस्कान्तमणिकल्पा विग्या अयःसधर्मकं चित्तमभिसंबध्योपरञ्जयन्ति, येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्त्ररूपत्वात्परिणामि चित्तम् ॥ १७ ॥ यस्य तु तदेव चित्तं विषयस्तस्य- मोदकस्योपार्जितमोदकस्य चोपयुज्यमानस्य रसवीर्यविपाकादिसाम्यप्रसङ्गात् । तस्मात्साधूक्तं संबध्यमानं च पुनश्चित्तेनेति । अपि च यो योऽर्वाग्भागः स सर्वो मध्यपरभागव्याप्तः । ज्ञानाधीने सद्भावे त्वस्यानुभूयमानत्वान्मध्यपरभागौ न स्त इति व्यापकाभावादर्वाग्भागोऽपि न स्यादित्यर्थाभावात्कुतो ज्ञानसहभुरर्थ इत्याह – ये चास्येति । अनुपस्थिता अज्ञाताः । उपसंहरति — तस्मादिति । सुगमं शेषम् ॥ १६ ॥ स्यादेतत् — अर्थश्चेत्स्वतन्त्रः, स च जडस्वभाव इति न कदाचित्प्रकाशेत। प्रकाशने वा जडत्वमप्यस्यापगतमिति भावोऽप्यपगच्छेत् । न जातु स्वभावमप- हाय भावो वर्तितुमर्हति । न चेन्द्रियाद्याधेयो जडस्वभावस्थार्थस्य धर्मः प्रकाश इति साम्प्रतम् । अर्थधर्मत्वे नीलत्वादिवत्सर्व पुरुषसाधारण इत्येकः शास्त्रार्थज्ञः इति सर्व एव विद्वांसः प्रसज्येरन्न जाल्मः कश्चिदस्ति । न चातीतानागतयोर्धर्मः प्रत्युत्पन्नो युक्तः । तस्मात्स्वतन्त्रोऽर्थ उपलम्भविषय इति मनोरथमात्र मेतदित्यत आह—तदुपराग|पेक्षित्याच्चित्तस्य वस्तु ज्ञाताज्ञातम् । जडस्वभावोऽप्यर्थ इन्द्रियप्रणाडिकया चित्तमुपरञ्जयति । तदेवंभूतं चित्तदर्पणमुपसंक्रान्तप्रतिबिम्बा चितिशक्तिश्चित्तमर्थोपरक्तं चेतयमानार्थमनुभवति, न त्वर्थे किञ्चित्प्राकट्यादि- कमाधत्ते । नाप्यसंबद्धा चित्तेन तत्प्रतिबिम्बसंक्रान्तेरुतत्वादिति । यद्यपि च सर्वगतत्वाच्चित्तस्य चेन्द्रियस्य चाहङ्कारिकस्य विषयेणास्ति संबन्धस्तथापि यत्र शरीरे वृत्तिमच्चित्तं तेन सह न संबन्धी विषयाणामित्ययस्कान्तमणिकल्पा इत्यु- क्तम् । अयः सधर्मकं चित्तमिति । इन्द्रियप्रणाडिकयाभिसंबन्ध्योपरञ्जयन्ति । अत एव चित्तं परिणामीत्याह-वस्तुन इति ॥ १७ ॥ तदेवं चित्तव्यतिरेकिणमर्थमवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्त- मात्मानमादर्शयितुं तद्वैधम्यंमपरिणामित्वमस्य वक्तुं पूरयित्वा सूत्रं पठति-यस्य