पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ४ सू. १६ ] पातञ्जलयोगसूत्रम् १७० चित्तैरभिसंबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेना- त्मना हेतुर्भवति ।। १५ ।। केचिदाहुः–ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूपमेवापह्नवते- न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा कि स्यात् ॥ १६ ॥ एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा चित्ते व्यग्रे निरुद्धे वा स्वरूपमेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाण कमगृहीतमस्वभावकं केनचित्तदानीं किं तत्स्यात् ? संबध्यमानं च पुनश्चित्तेन कुत उत्पद्येत ? ये चास्यानुपस्थिता बाह्यस्य वस्तु नस्वैगुण्यपरिणामस्य त्रैरूप्यमुपपन्नम् । एवमपि सर्वेषामविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्यादित्यत आह-धर्मादिनिमित्तापेक्षमिति । रजः- सहितं सत्त्वं धर्मापेक्षं सुखज्ञानं जनयति । सत्त्वमेव तु विगलितरजस्कं विद्या- पेक्षं माध्यस्थ्यज्ञानमिति । ते च धर्मादयो न सर्वे सर्वत्र पुरुषे सन्ति, किं तु कश्चित्क्कचिदित्युपपन्ना व्यवस्थेति ॥ १५ ॥ अत्र केचिदाहुः प्रावादुका ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । एतदुक्तं भवति — भवत्वर्थो ज्ञानाद्वयतिरिक्तस्तथाप्यसौ जडत्वान्न ज्ञानमन्तरेण शक्यः प्रतिपत्तुम् । ज्ञानेन तु भासनीयः । तथा च ज्ञानसमय एवास्ति नान्यदा प्रमाणाभावादिति । तदेतदुत्सूत्रं तावद् दूधयति भाष्यकार:- त एतया द्वारेति । वस्तु खलु सर्वचित्तसाधारणमनेकक्षणपरम्परोह्यमानं परिणामात्मकमनुभूयते लौकिकपरीक्षकैः । तच्चेद्विशानेन सह भवेन्नूनमेवंविधमेवं चेदिदमंशस्योपरि कोऽयमनुरोधो येन सोऽपि नापहृयेतेत्यर्थः । मा वा भूदिदमंशस्थापह्नवो ज्ञानसहभूरेवास्त्वर्थः । तत्राप्याहन चैक- चित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् । यद्धि घटग्राहि चित्तं तद्यदा पट- द्रव्यव्यग्रतया न घंटे वर्तते, यद्वा विवेकविषयमासीत्तदैव च निरोधं समापद्यते तदा घटज्ञानस्य वा विवेकज्ञानस्य वाऽभावाद्विवेको वा घटो वा ज्ञानभेदमात्र- जीवनस्तन्नाशानष्ट एव स्यादित्याह – एकचित्तेति । किं तत्स्यान्न स्यादित्यर्थः । सम्बध्यमानं च चित्तेन तद्वस्तु विवेको वा घटो वा कुत उत्पद्येत । नियतकारणान्वयव्यतिरेकानुविधायिभावानि हि कार्याणि न स्वकारणमतिवर्त्य कारणान्तराद्भवितुमीशते । मा भूदकारणत्वे तेषां कादा- चित्कत्वव्याघातः । न च तज्ज्ञानकारणत्वमेव तत्कारणत्वमिति युक्तम् । आशा